________________
Jain Education
| प्रत्येकमन्तर्मुहूर्त्तमात्र कालमानाभ्यां विशुद्धयमानः स्थितिघातरसघातस्थितिबन्धगुणश्रेणीरपूर्वा ( अ ) पूर्वतराश्च प्रवर्त्त - यन्नन्तरकरणमारभते, तथा चोक्तम् - " ठिइकंडगाण एवं बहुइ सहस्सा अइच्छिया जाहे । संखेज्जइमे भागे ||सेसे अनियट्टियध्धा ॥ १ ॥ आढवइ अंतरं सो अंतमुहुत्तं तु हेट्ठओ धरियं । तं पढमठिहं जाणसु आईए मिच्छद - | लियरस ॥ २ ॥ अंतमुहुत्ता उवीरें किंचणमुहुत्तगेण सरिसाउ | मिच्छत्तस्स ठिईउ उक्किरइ तमंतरं भणियं ॥ ३ ॥ " तत्र प्रथमस्थितौ मिध्यात्वदलिकवेदनादसौ मिध्यादृष्टिः, अन्तर्मुहूर्त्तेन तु तस्यामपगतायामन्तरकरणप्रथमसमय एव निसर्गतोऽधिगमतो वौपशमिकसम्यक्त्वमाप्नोति, यस्त्वन्तरकरणं न करोति स प्रथममेव यथाप्रवृत्तादिकरणत्रयेणैव विहितत्रिपुञ्जीकरणस्तथैव क्षायोपशमिकं सम्यक्त्वं लभते, तल्लाभे च सम्यग्ज्ञाना|दिलाभः, उक्तञ्च - " लंभेण तस्स लभति हु आयहियं णाणदंसणचरितं । तं संसारसमुद्दे जीवेण अलद्धपुत्रं तु ॥ १ ॥ " इति कृतं प्रसङ्गेन, यद्यपि चात्र सूत्रे स्वसंमत्या परव्याकरणाच्च सम्यक्त्वोत्पत्तौ दृष्टान्तसूचा न कृता तथाऽप्याद्यपदे श्रेयांसो द्वितीयपदे चिलातीपुत्रो निदर्शनमवगन्तव्यं तत्र श्रेयांस कथानक मिहैवाऽतिथि संविभागव्रतभावनाद्वारे वक्ष्यति, चिलातीपुत्रकथा चेयम्
tional
For Private & Personal Use Only
है की
www.jainelibrary.org