________________
Jain Education Inter
चालनानन्तरं सकलसुरासुरेन्द्रः सह समागत्य सविनयमर्हद्भट्टारकं गृहीत्वा गत्वा कनका. द्रिशृङ्गे विहितजन्माभिषेकः शान्तिमुद्धोषयति यथा ततोऽहं कृतानुकारमिति कृत्वा 'महाजो येन गतः स पन्थाः ' इति भव्यजनैः सह समेत्य स्नात्रपीठे स्नात्रं विधाय शान्तिमुद्धेोषयामि, तत्पूजायात्रास्नात्रादिमहोत्सवानन्तरमिति कृत्वा कर्णं दत्त्वा निशम्यतां निशम्यतां स्वाहा । ॐ पुण्याहं पुण्याहं प्रीयन्तां प्रीयन्तां भगवन्तोऽर्हन्तः सर्वज्ञाः सर्वदर्शिनस्त्रिलोकनाथा. स्त्रिलोकमहितास्त्रिलोकपूज्यास्त्रिलोकेश्वरात्रिलोकोद्योतकराः । ॐ ऋषभअजितसम्भव अभिनन्दन
सुमतिपद्मप्रभसुपार्श्वचन्द्रप्रभसुविधिशीतलश्रेयांसवासुपूज्यविमलअनन्तधर्मशान्तिकुन्थुअरमल्लिमनिसुव्रतनमिनेमिपार्श्ववर्धमानान्ता जिनाः शान्ताः शान्तिकरा भवन्तु स्वाहा । ॐ मुनयो मुनिप्रवरा रिपुविजयदुर्भिक्षकान्तारेषु दुर्गमार्गेषु रक्षन्तु वो नित्यं स्वाहा । ॐ ह्रीं श्रीं धृतिमतिकीर्तिकान्तिबुद्धिलक्ष्मीमेधाविद्या साधनप्रवेशननिवेशनेषु सुगृहीतनामानो जयन्तु ते जिनेन्द्राः । ॐ रोहिणीप्रज्ञप्तिवज्रशृङ्खलावज्राङ्कुशीअप्रेतिचक्रापुरुषदत्ताकाली महाकाली गौरीगांधीं िसर्वास्त्रामहाज्वाला मानवीवेरोट्या अच्छुतोमानसी महमानसी षोडश विद्यादेव्यो रक्षन्तु वो नित्यं स्वाहा । ॐ
For Private & Personal Use Only
www.jainelibrary.org