________________
यूयं मातरः, प्रभातसमये द्रव्यदानेन मोचिताः सर्वाः, स्वनगरमानीताः । एते दोषा अनिवृत्तानामिति ॥ द्वितीयकथानकम्
मथुरायां नगर्या कुबेरसेना गणिका प्रथमगर्भणातीव बाधिता, वैद्यस्य कथितं, तेनोक्तं-अयि युग्मगभदोषोऽयं, न रोगदोषोऽस्ति, मात्रा सा उक्ता-प्रसवकाले मा बाधा भविष्यति तस्मादौषधेन गालय, तया नेष्टं, ततः कालेन दारको दारिका च जाता इति, पुनर्जनन्योक्तं-दश रात्रीः परिपाल्य त्यक्ष्यामि, ततो मुद्राद्वयं कुबेरदत्तकुबेरदत्तानामकं घटयित्वा गलके वध्ध्वा मंजूषायां प्रक्षिप्य यमुनायां प्रवाहिते, प्रभातसमये सोरिकपुरे नदीतटस्थितेन श्रेष्टियेन मंजूषा आगच्छमाना उदकमध्ये दृष्टा, गृहीता च यावन्मध्ये बालकयुग्मं दृष्ट, एकेन दारको गृहीतो द्वितीयेन दारिका, यौवनप्राप्तयोविवाहधर्मः कृतः, यावद् द्यूतकाले मुद्रारत्नं संचारितम्, एकघटनारूपं दृष्ट्वा कुबेरदत्तस्य शंका संजाता, न मम अस्या उपरि भार्याबुद्धिः, गत्वा मातरं पृष्टवान्, तया शपथपूर्व कथितं, तेन चोक्तं-विरूपमाचरित, ते न वधूः पितृगृहं प्रेषिता,आत्मना मथुरायां व्यवहारबुद्धया गतः, तत्र सा कुबेरसेना गणिका स्वगृहे धृता, पुत्रोत्पत्तिश्च, कुबेरदत्ता तच्छुत्वा तिनी संजाता अवधिज्ञान चोत्पन्नं कालेन, दृष्टं च तदज्ञानविजृम्भितं पुत्रोत्पत्त्यादिकं, मथुरायामागता साध्वी, तयोः प्रतिबोधनार्थ वसति तत्रैव गृहे. गृहीत्वा बालकत्वं मम भ्राता भ्रातृव्यो भर्तृभ्राता पुत्रश्च, त्वदीयः पिता मम भ्राता पिता पुत्र भर्ता श्वशुरः, त्वदीया माता मम माता श्वश्रः स्वपत्नी भ्रातृजाया, विरुद्धवचोभिभण्यमानं श्र वा कुबेरदत्तो वैदिवा स्वरूपं पृष्टवान् , आर्थिकयापि सर्वोऽपि वृत्तान्तः जन्मप्रभृति कथितः, तयोः प्रतीतिरुत्पन्ना, अज्ञानविलसनमूढेन मयतचेष्टितं, निविणकामभोगः प्रत्रजितः, कुबेरसेना गणिका श्राविका संजाता ॥ तृतीयं कथानकं हस्तिनागपुरे महेश्वरः सार्थवाहो भार्या सगी मुक्त्वा प्रोषितः प्रमृता पुत्री, अनागमने मथुरायां च प्राग्भार्यया वीवाहिता, तथापि
SECRUGANGACANCIALOCALCANOARDC
Jain Education in
For Private Personal Use Only
A
w.jainelibrary.org