________________
श्रीनवपद प्रकवृत्ती
अणुव्रतेषु अदत्तादान विरतिः
॥२१॥
उचियकलं जाणेजसु धरिमे मेए कलंतराइसु य । पडियस्स य गहणम्मी जयणा सव्वत्थ कायवा ॥४४॥
___ उचितकला अष्टगुणलाभादिलक्षणा तां जानीयात्, क ?-धरिमे-गुडादौ मेये-धान्यादी 'कलंतराइसु य' पंचशतकलाभादिलक्षणा, पतितस्य च-नष्टस्य च 'ग्रहणे' स्वीकरणे 'यतना' अल्पदोषबहुगुणलक्षणा, उक्तंच-"अप्पेण बहुमेसेज्जा, एवं पंडियलक्खणं । सव्वासु पडिसेवामुं, एवं अत्थपयं विऊ ॥१॥" इति वचनात् , 'सर्वत्र' क्रयविक्रयादौ 'कर्तव्या' विधेया इति गाथासंक्षेपार्थः । साम्पतमतिचारद्वारमाहतेनाहडं च तकरपओग कूडतुल कुडमाणं च । तप्पडिस्वं च विरुद्धरजगमणं च वजिजा ॥४५॥
स्तेनाः-चौरास्तैश्च प्रहृत्यानीतं किंचित् कुंकुमादि समद्धितमिति गृह्णतोऽतिचारः, तस्करप्रयोगोऽनेन प्रयोगेन क्षत्रादि दीयतेऽनेन प्रयोगेन तुलोद्धरणादिना द्रव्याजन तेषां वा योगोदहनादि स्थगनं वा, कूटतुलकूटमानं च अधिकया गृह्णाति न्यूनया ददाति, स्वकीयपरकीयया वा, तत्प्रतिरूपकं नाम घृते वसादिप्रक्षेपादिलक्षणं, विरुद्धराज्यातिक्रमः-विरुद्धनृपयोः राज्ये परस्परंगमनादिके निषिद्धे लोभाभिभूतो गमनागमनं करोति तेन चातिचारो 'वजयेत्' परिहरेदिति गाथार्थः । भंगद्वारमाहजो चिंतेइ अदिन्नं गिण्हेमि पयंपए तहा गिण्हे । अइयारेसु य वइ पुणो पुणो तस्स भंगो वा ॥ ४६॥
यः कश्चिचिंतयति-अदत्तं स्वामिना 'गृहणामि' स्वीकरोमि, प्रजल्पेदेवं वाचा, तथा गृह्णाति, एवं 'अतिचारेषु' खंडनारूपेषु वर्तते, द्विच्यादिवारां पुनः पुनः तस्य भंगोऽत्र तस्य जीवस्य, भंगः-सर्वाभावलक्षणोऽत्र-अदत्तादानव्रतविषये जायत इति गाथार्थः ॥ भावनाद्वारमाह
1॥२१॥
Jain Education
For Private & Personel Use Only
How.jainelibrary.org