________________
श्री नवपद प्रक०वृत्ता.
समताभावे सुदर्शनवृत्तं
॥४४॥
CRECRUCIRUGRICALCRACLCRICALGANA
बाहुबन्धः कृतः, तत्रव तस्य कपिलब्राह्मणः पुरोहितो मित्रं, भार्या तस्य कपिला, सा च भतुः सकाशाद् गुणगणोत्कीतन श्रुत्वा अनुरागं गता, तया चकान्तं विज्ञाय कपिलब्राह्मणशरीरकारणव्याजेन स आहायित आगतश्च, तया चोक्तम्-अभ्यन्तरेऽपवरिकायां प्रविश, प्रविष्टे चात्मना सद्भावकथनं च कृतं, सुदर्शनेन चितित-नान्यो निगमोपायः, तत उक्तं-पुरुषनेपथ्येन तिष्ठामि नपुंसकः सन् , ततो मुक्तः निगतो, अन्यदा राज्ञा उद्यानमहोत्सवः प्रारब्धः सह सुदशनकपिलाभ्यां, अभयादेवी कपिला ब्राह्मणी मनोरमा चात्मीययानवाटनारूढाः परिवारसमन्विताश्चलिताः, ततः कपिलाब्राह्मण्या उक्तम्-कैषा देवी पुत्रसमन्विता छत्रचामरयानादिभिएका?, अभयदेव्योक्त-मनोरमा पुत्रसमन्विता सुदशनभार्या, तयोक्त-एप पष्ठकः कथ पुत्रोत्पत्तिः?, तगोक्तं-कथं लगा ज्ञातं यथैष षण्ढकः ?, कपिलाब्राह्मण्या कथित आत्मीयो वृत्तान्तः, तयोक्त-विचक्षणा त्वम्, एष कामदेवः स्वदारसंतुष्टः, एषा च परपुरुषगन्धमपि नेच्छत्यास्तां परिभोगं, व वंचिता अनेन, ततस्तयोक्तं-त्वं पण्डिता यद्यनं कामयसे, ततः प्रतिज्ञा कृता मरणात्मिका, ततः पण्डितनाम्नी धात्री, तस्थो अभिप्रायः कथितः, तया चोक्त-दुष्ट कृतं, एष परस्त्रीगंधमपि नेच्छति, ततो निवर्तकं निर्बन्ध ज्ञात्वा आश्वासिता, असौ पर्वदिने पोषधं करोति, कायोत्सर्गप्रतिमां च, ततः कामदेवमतिमाव्याजेन पण्डितधाच्या प्रवेशितोऽभयदेव्या अपवरके, तया च भणितोऽनेकैः प्रकारर्यावत् नेष्टं तद्वचः, मानमालम्ब्य स्थितः, ततः प्रत्कारपूर्वकं ग्राहीतः माहरिकैः, राज्ञो दर्शितः, वध्य आज्ञापितो, मनोरमापि एतद् व्यतिकरं ज्ञात्वा देवताऽऽराधनार्थ कायोत्सर्गेण स्थिता, शूलिका देवेन सिंहासनं कृतं, खड्गाभिघातास्त्वाभरणानि, राज्ञः कथितं, स्वयमेव गतो, हस्तिस्कन्धारूढो नगरं प्रवेशितः, पृष्टः सन् राज्ञा न किंचित् कथयति, ततोऽभयप्रदानपूर्वकमुक्तं, गृहं गतेन मनोरमया सह गृहीता प्रव्रज्या,
SRIGANGANAGAR
॥४४॥
Jain Education
For Private
Personel Use Only
*
rainelibrary.org