________________
श्रीपञ्चवस्तुके.
॥ ३२ ॥
Jain Education
जायते विरागहेतुः वैराग्यकारणं, धर्म्मध्यानस्य च निमित्तं महापुण्यवतां महापुरुषाणां तथोपलब्धेरिति गाथार्थः ॥ ९४ ॥ एतच्च विषयविरागादि महत्सुखमित्याह
जं विसयविरत्ताणं सुक्खं सज्झाणभाविअमईणं । तं मुणइ मुणिवरोचिअ अणुहवउ न उण अन्नोऽवि १९५ द्विषयविरतानाम् - असदिच्छारहितानां सौख्यं सद्ध्यानभावितमतीनां च धर्म्मध्यानादिभावितचित्तानां तत् मनुते - जानाति मुनिवर एव- साधुरेवानुभवतः - अनुभवनेन न पुनरन्योऽपि - असाधुः, तथाऽनुभवाभावादिति गाथार्थः ॥ ९५ ॥ एतदेव समर्थयति
कंखिजइ जो अत्थो संपत्तीए न तं सुहं तस्स । इच्छाविणिवित्तीए जं खलु बुद्धप्पवाओऽयं ॥ १९६ ॥ काङ्क्ष्यते-अभिलप्यते योऽर्थः - ख्यादिः सम्पत्त्या - सम्प्राप्या न तत्सुखं तस्य - अर्थस्य इच्छाविनिवृत्त्याऽत्र यत्खलु सुखं बुद्धप्रवादोऽयम् - आप्तप्रवादोऽयमिति गाथार्थः ॥ ९६ ॥
मुत्ती वभिचारो तं णो जं सा जिणेहिं पन्नत्ता । इच्छाविणिवित्तीए चेव फलं पगरिसं पत्तं ॥१९७॥ मुक्त्या व्यभिचारः, तत्काङ्क्षणे तत्प्राप्त्यैव सुखभावाद्, एतदाशङ्कयाह- तत् न, यद् - यस्मादसौ - मुक्तिर्जिनैः प्रज्ञप्तातीर्थकरैरुक्ता इच्छाविनिवृत्तेरेव फलं न पुनरिच्छापूर्वकमिति, प्रकर्षप्राप्तं - सामायिक संयतादेरारभ्योत्कर्षेण निष्ठां प्राप्तमिति गाथार्थः ॥ ९७ ॥ किञ्च -
Bonal
For Private & Personal Use Only
गृहत्यागस्य पापत्वनि
रासः
॥ ३२ ॥
ainelibrary.org