________________
श्रीपञ्चवस्तु.
11 30 11
द्धिरुत्पद्यत इति भावः, तथा शीतोदकादिभोगम्, आदिशब्दाद्विकृत्यादिपरिग्रहः, अदत्तदाना इति न कुर्वन्ति, पापोदयेनैव तत्परिहार बुद्धिरुत्पद्यत इति गाथार्थः ॥ ८० ॥ एतदेव समर्थयति
बहुदुक्खसंविदत्तो नासइ अत्थो जहा अभवाणं । इअ पुन्नेहिवि पत्तो अगारवासोऽवि पावाणं ॥ १८९ ॥ बहुदुःखसंविदत्तोऽपि - बहुदुःखसमर्जितः सन् नश्यत्यर्थो यथाऽभव्यानाम् - अपुण्यवतां इय- एवं पुण्यैरपि प्राप्तोऽगारवासोऽपि पापानां नश्यति, क्षुद्रपुण्योपात्तत्वादिति गाथार्थः ॥ ८१ ॥
चत्तंमि घरावासे ओआसविवज्जिओ पिवासत्तो । खुहिओ अ परिअडतो कहं न पावस्स विसउत्ति ? १८२ त्यक्ते गृहावासे, प्रव्रजितः सन्नित्यर्थः, अवकाशविवर्जितः - आश्रयरहितः पिपासार्त्तः - तृपरीतः क्षुधितश्च पर्यटन् कथं न पापस्य विषय इति, पापोदयेन सर्वमेतद्भवतीति गाथार्थः ॥ ८२ ॥ तथा चाह
सुझाणाओ धम्म विहीणस्स तं कओ तस्स ? | अण्णंपि जस्स निच्चं नत्थि उवट्टंभहे उत्ति ॥ १८३ ॥ शुभध्यानात्-धर्मध्यानादेर्धर्म्म इति सर्वतन्त्र प्रसिद्धिः, सर्वविहीनस्य - सर्वोपकरणरहितस्य 'तत्' शुभध्यानं कुतस्तस्य-प्रत्रजितस्य ?, अन्नमपि - भोजनमपि, आस्तां शीतत्राणादि, यस्य नित्यं सदा उचितका ले नास्ति उपष्टम्भहेतुः शुभध्यानाश्रयस्य कायस्येति गाथार्थः ॥ ८३ ॥
तम्हा गिहासमरतो संतुहमणो अणाउलो धीमं । परहिअकर णिक्करई धम्मं साहेइ मज्झत्थो ॥ १८४ ॥
Jain Educational
For Private & Personal Use Only
गृहत्यागस्य
पापत्वनि
रासः
॥ ३० ॥
Inelibrary.org