SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ CROSONAMMARRORDCRACK पर विचारशून्यमेव तत् , यतो न तत्र मासकल्पविच्छेदो यथा खरेण स्वकुल के प्रत्यपादि तथा प्रतिपादितः, किंतु यः कश्चित् किंचित् कारणमालंब्य मासकल्पेन विहारं न कुर्यात् तथापि अपवादपदत्वात् तदाचरणस्य तदाभाव्यं न कोऽपि जिनमतानुसारी छिंद्यात्, यत आहुः भाष्यकारा:-"जइ होइ खेत्तकप्पो असती खेत्ताण होज बहुगावी । खेत्तेण य कालेण य सम्बस्सवि उग्गहो णगरे ॥ २४५०॥” तथा क्षेत्राभावमाश्रित्य कादाचित्कविहरणाभावमाश्रित्य साधारणक्षेत्रस्याभाव्यताविषयमेतत्, कथमन्यथा श्रीमद्भिरेव प्रतिपादितं मासाद्यतिक्रमे वसतेर्दुष्टत्वं "उउमासं समईआ०"(७१३) गाथायां, कथं च 'अप्पडिबद्धो अ सया गुरूवएसेण सबभावेसु । मासाइविहारेणं विहरिज जहोचियं नियमा ॥ ८९५ ॥ मोत्तूण मासकप्पं अन्नो सुत्तमि नस्थि उ विहारो" इत्येवं मासादिकल्पस्य नियततां एते प्रतिपादयेयुः?, सूत्रकारा अपि श्रीमत्याचारांगे एवमेवाहुः कालातिक्रान्ता वसतिं दुष्टतया से आगंतागारेसु वा ४ जे भयंतारो उडुबद्धियं वा वासावासियं वा कप्पं उवाइणित्ता तत्थेव भुज्जो संवसंति अयमाउसो ! कालाइकंतकिरिया भवति' वृत्तिकारा अप्याहुः-"तेषु आगन्तागारादिषु ये भगवन्तः । ऋतुबद्धं शीतोष्णकालयोर्मासकल्पं 'उपनीय' अतिवाह्य वर्षासु वा चतुरो मासान् अतिवाह्य तत्रैव पुनः कारणमन्तरेणासते अयमायुष्मन् ! कालातिक्रमदोषः संभवति" एवं च सति मासकल्पविहारस्योच्छेदो न सूत्रकृद्भिः संमतः न च वृत्तिकृद्भिः श्रीशीलांकाचायः, नच श्रीमद्भिहरिभद्रसूरिभिः, किंतु खराणां स्वस्वभावतः कटुरसनपरायणतया जातं तदुद्भावनं, तथा च मासकल्पादिविहारिणामुत्सूत्रतामापादयतः जिनदत्तस्यैव तथात्वं दुर्निरिमेव, एतावल्लिखनं तु कश्चित् खरात्मज एवं मा रटीद् यदुत संस्थयैव मासकल्पविहारोच्छेदः प्रकटितः, यतस्तादृशामेतादृश एव स्वभावः, कथमन्यथा श्रीमत्यां पञ्चाशकवृत्तौ धर्मसंग्रहवृत्तौ च वन्दनाद्यपेक्षं सामायिकक्रियाया अनु ईर्याप्रतिक्रमणं यन्मुद्रितं तत् स्खोत्सूत्रमूलकमतपोषकतया स प्रकटयेत् , तथा चैतदुल्लेखे नास्माकं मनीषा, किंतु मा भूत् तेषां तथा रटनं तेन भद्रकाणां भ्रामण Jain Educa ional For Private Personel Use Only
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy