________________
श्रीपञ्चव
स्तु ०
॥ ३ ॥
Jain Educatio
लितस्यापि स्वश्रेयसे प्रव्रज्या प्रत्यपादि तथाऽत्र बालस्यापि दीक्षा प्रत्यपादि, न च वाच्यं मातापितृभ्यामदत्तस्य दीक्षादाने शैक्षनिष्फेटिकानामा दोषः श्रीनिशीथ चूर्णिप्रभृतिषु श्रूयते तत्कथमेवं प्रतिपादनं सूरीणां जाघटीति ?, यतः शैक्षनिष्फेटिका कदा भवति कदा चन भवतीत्येव चेश्चिन्त्यने तदा वाचाटतायाः स्वयमेवापगमो भविष्यति, शास्त्रकारा हि महात्मानः न कदाचनापि स्वश्रेयोनिबन्धनभूतां दीक्षां सर्वदा निषेधयेयुः अज्ञानमातापित्राद्यालम्बनेन, शैक्ष निष्फेटिका हि अर्वाक् षोडशभ्यो वर्षेभ्यः, षोडशवर्ष्याः परतस्तु मातापितरौ दीयेतां तं सुतादिकं मा वा परं न तत्र शैक्षनिष्फेटिका, यत आहुः पञ्च कल्पभाष्यकाराः - “अपडुप्पण्णो वालो सोलसवरिपूर्णो अहव अनिविट्ठो । अम्मापि - उअविदिष्णो न दिखई तत्थ वऽण्णत्थ ॥ ५२४ ॥ ( नि. उ. ११ - ४४८ अपि) जो सो अप्पडिपुण्णो बिरट्ठवरसूण अहव अणिविट्ठो । तं दिक्खित अविदिण्णं तेजो परओ अतेणो उ ॥ ५२७ ॥” तथाच भाष्यकाराः शैक्षनिष्फेटिकां परतः षोडशवर्ष्या न मन्वते इति सिद्धं, राजकीय| शासनं तु पुरुषस्य चतुर्दशवर्ष्याः स्त्रियाश्च षोडशवर्ष्याः परतो नापहरणापराधं प्रणिगदति, तथा च श्रीमदाप्तवचनानां राजकीयशासनस्य च अपेक्षया अर्वाक् षोडशवर्ष्या एव मातापित्रनुज्ञापेक्षा, न परत इति सिद्धं, एवं च सति वाचाटानां वक्रं श्रद्धानुसारिभिः पिहितमेव बोध्यं तैः सर्वदैव मातापित्रनुज्ञामन्तरेण दीक्षणे शिक्षनिष्फेटिकादोषस्योघोषणात्, एवं यथा दीक्षाग्राहकाणां सौकर्यं विहितं श्रीमद्भिः तथैव दीक्षाया दायकानां ग्राहकाणां च अविधिना दीक्षादानादानादावनर्थपरम्परापि या दर्शिता सा नोपेक्षणीयैव सत्पुरुषैः, एवं प्रथमवस्तुनि प्रत्रज्याविधि सप्तविंशत्यधिकया द्विशत्या गाथानां प्रपश्चय प्रतिदिनक्रियायां प्रतिलेखनादीनि दश द्वाराणि सविस्तरमभिहितानि अत्र चैकोनाशीत्यधिकद्विशतीतमगाथाया वृत्तौ 'स्तोकापराधं बहुगुणं मासकल्पाविहारवत् सर्वेषां जिनमतानुसारिणां तत् प्रमाणमेवे 'ति वृत्तिवाक्यलेशमवलंब्य खररटननिपुणरसनो जिनदत्तः खरबिरुद्धारको रारटीति यदुत अधुना मासकल्पेन विहारस्य कथनं करणं चोत्सूत्रमेव,
tional
For Private & Personal Use Only
उपोद्घातः
॥३॥
Inelibrary.org