________________
स्वजनयुतस्यापि दीक्षा गा. ८४-८६
आह-यदि तावत् तस्य-स्वजनस्य त्यागो गुरुतर इत्यत्राह–'कोऽत्र विशेषहेतु'रिति, यतोऽयमेव इति गाथार्थः ॥ ८३॥ अह तस्सेव उ पीडा किंणो अण्णेसि पालणे तस्स ? । अह ते पराइ सोऽविहु सतत्तचिंताइ एमेव ॥८॥ | 'अथ' इत्यथैवं मन्यसे 'तस्यैव तु स्वजनस्य पीडा विशेषहेतुरिति, अनोत्तरमाह-किं नो अन्येषां सत्त्वानां पालने तस्य पीडा ?, पीडैवेति भावः । अथ ते परादय इति-अपरे आदिशब्दादेकेन्द्रियादयश्च, अत्रोत्तरम्-'असावपि' स्वजनः 'स्वतत्त्वचिन्तायां' परमार्थचिन्तायां एवमेव-परादिरेव, अनित्यत्वात् संयोगस्य इति गाथार्थः॥ ८४ ॥ पक्षान्तरमाह
सिअतेण कयं कम्मं एसोनोपालगोत्ति किंण भवे? ता नृणमण्णपालगजोग्गं चिअतं कयं तेण ॥८५॥ PI 'स्याद्' इत्यथैवं मन्यसे 'तेन' स्वजनेन कृतं कर्म-अदृष्टं, किंफलमित्याह-'एष' प्रविजिषुः 'नः' अस्माकं पालक
इत्येवंफलम् , अत्रोत्तरं-किं न भवति?, कर्मणः स्वफलदानात्, न च भवति, तन्नूनम्-अवश्यम् अन्यः पालक इत्येतदुचितमेव 'तत्'कर्म कृतं 'तेन' स्वजनेन इति गाथार्थः ॥ ८५ ॥ किञ्च
बहुपीडाए अ कहं थेवसुहं पंडिआणमिटुंति ? । जलकट्टाइगयाण य बहूण घाओ तदच्चाए ॥८६॥ ___ 'बहुपीडायां च अनेकजलायुपमईने च कथं 'स्तोकसुखं' स्तोकानां स्वजनानां स्तोकं वा स्वल्पकालभावेन सुखं स्तोकसुखं पण्डितानामिष्टमिति?, वहुपीडामाह-जलकाष्ठादिगतानां च प्राणिनामिति गम्यते बहूनां घातः तदत्यागे-स्वजनात्यागे, आरम्भमन्तरेण तत्परिपालनाऽभावात् इति गाथार्थः ॥८६॥
Jain Educa
t ional
For Private & Personel Use Only
www.jainelibrary.org