SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चवस्तु. ॥ १५ ॥ Jain Education शोक माक्रन्दनं विलपनं च चशब्दादन्यच्च ताडनादि, यद्दुःखितः 'तक' इत्यसौ स्वजनः करोति सेवते यच्चाकार्य शीलखण्डनादि तेन विना, तेनेति - पालकेन प्रव्रज्याभिमुखेन तस्यासौ दोष इति यः स्वजनं विहाय प्रव्रज्यां प्रतिपद्यते इति गाथार्थः ॥ ८० ॥ एष पूर्वपक्षः, अत्रोत्तरमाह इअ पाणवहाईआ ण पावहेउत्ति अह मयं तेऽवि । णणु तस्स पालणे तह ण होंति ते ? चिंतणीअमिणं ॥ ८१ ॥ 'इति' एवं स्वजनत्यागाद् दोषे सति प्राणवधाद्या न पापहेतव इति, आदिशब्दात् मृषावादादिपरिग्रहः, स्वजनत्यागादेव पापभावादित्यभिप्रायः । अथ मतं- तेऽपि प्राणवधादयः पापहेतव एव एतदाशङ्कयाह - ननु तस्य - स्वजनस्य पालने ' तथा ' इत्यारम्भयोगेन न भवन्ति ते प्राणवधादयः ?, 'चिन्तनीयमिदं' चिन्त्यमेतद् भवन्त्येव इति गाथार्थः ॥ ८१ ॥ एतदेव प्रकटयन्नाह - आरंभमंतरेणं ण पालणं तस्स संभवइ जेणं । तंमि अ पाणवहाई नियमेण हवंति पयडमिणं ॥ ८२ ॥ आरम्भमन्तरेण न पालनं तस्य - स्वजनस्य सम्भवति, येन तस्मिंश्च- आरम्भे प्राणवधाद्या नियमेन भवन्ति, प्रकटमिदं लोकेऽपि इति गाथार्थः ॥ ८२ ॥ अण्णं च तस्स चाओ पाणवहाई व गुरुतरा होज्जा ? । जइ ताव तस्स चाओ को एत्थ विसेसहे उत्ति ? ॥८३॥ अन्यच्च - 'तस्य' स्वजनस्य त्यागः प्राणवधादयो वा पापचिन्तायां गुरुतरा भवेयुरिति विकल्पौ किं चात इति For Private & Personal Use Only स्वजनयु तस्यानि दीक्षा गा. ८१-८३ ॥ १५ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy