________________
पश्चव. ४०
जो जहवायं न कुणइ मिच्छद्दिट्ठी तओ हु को अण्णो ? | वड्डेइ अ मिच्छत्तं परस्स संकं जणेमाणो ॥ १६६६ ॥ कंदप्पाईवाओ न चेह चरणम्मि सुबइ कहंचि (हिंवि) । ता एअसेवणंपि हु तवायविराहगं चेव ॥१६६७ ।। किंतु असंखिजाइं संजमठाणाई जेण चरणेऽवि । भणियाइं जाइभेया तेण न दोसो इहं कोइ ॥ १६६८ ।। एआण विसेसेणं तच्चाओ तेण होइ कायवो । पुब्विं तु भाविआणवि पच्छायावाइजोएणं ॥ १६६९ ॥ कयमित्थ पसंगेणं पगयं वोच्छामि सवनयसुद्धं । भत्तपरिण्णाए खलु विहाण सेसं समासेणं ॥ १६७० ॥
1
आह-न चरणविरुद्धा एताः भावनाः, अत्रैव यद् भणितं ग्रन्थे 'यः संयतोऽप्येतास्वि'त्यादि, तथा 'भाज्यश्चरणही नश्चेत्यादि प्रागिति गाथार्थः ॥ ६३ ॥ अत्रोत्तरम् - व्यवहारनयाच्चरणं एतासु भावनासु, यदसक्लिष्टोऽपि प्राणी कश्चित् कन्दर्पादीन् सेवते, न तु निश्चयनयेन चरणमेतास्विति गाथार्थः ॥ ६४ ॥ एतदेवाह - अखण्डं गुणस्थानं - निरतिचारमिष्टमेतस्य नियमत एव निश्चयनयस्य, सदौचित्यप्रवृत्त्या हेतुभूतया, सूत्रेऽपि यत इदं भणितं वक्ष्यमाणमिति गाथार्थः) ॥ ६५ ॥ किं तदित्याह - यो 'यथावाद' यथागमं न करोति विहितं मिथ्यादृष्टिस्ततः- एवम्भूतात्कोऽन्यः ?, स एव, आज्ञाविराधनादिति, वर्द्धयति च मिथ्यात्वमात्मनः परस्य शङ्कां जनयन्, सदनुष्ठानविषयामिति गाथार्थः ॥ ६६ ॥ स्याद्यथावादमेव कन्दर्पादिकरणमित्याशङ्कयाह - कन्दर्पादिवादो न चेहागमे 'चरणे' चारित्रविषयः श्रूयते 'क्वचित्' कस्मिंश्चित्सूत्रस्थाने, 'तत्' तस्माद् 'एतत्सेवनं' कन्दर्पसेवनमपि 'तद्वादविराधकं' चरित्रवादविराधकमेवेति गाथार्थः
Jain Education International
For Private & Personal Use Only
jainelibrary.org