________________
ACANCIENCECACC
आसुरीभावना १६४९५४
श्रीपञ्चव. दिभेदमादिशति, तथा 'निष्कृपः' कृपारहितः, तथा 'निरनुकम्पः' अनुकम्पारहितः अन्यस्मिन् कम्पमानेऽपि इत्यासु५ वस्तुनि रीभावनोपेतो भवतीति गाथार्थः॥४९॥ व्यासार्थ त्वाह-नित्यं व्युग्रहशील:-सततं कलहस्वभावः, कृत्वा च अभ्युद्यत- कलह नानुतप्यते पश्चादिति, न च क्षान्तः सन् अपराधिना 'प्रसीदति' प्रसादं गच्छति अपराधिनोईयोरपि-सपक्षमरणे तू परपक्षगतयोः कषायोदयादेवेत्येषोऽनुबद्धविग्रह इति गाथार्थः ॥५०॥ संसक्ततपसमाह-आहारोपधिशय्यासु-ओद
नादिरूपासु यस्य भावस्तु-आशयः 'नित्यसंसक्तः' सदा प्रतिबद्धः, भावोपहतः स एवम्भूतः करोति च तपउपधानम्अनशनादि 'तदर्थम्' आहाराद्यर्थ यः संसक्ततपा यतिरिति गाथार्थः ॥५१॥ निमित्तादेशनमाह-त्रिविधं भवति निमित्तः कालभेदेन, एकैकं षडिधं-लाभालाभसुखदुःखजीवितमरणविषयभेदेन तत्तु भवति विज्ञेयम् , एतच्च 'अभिमानाभिनिवेशादिति' अभिमानतीव्रतया व्याकृतं सदासुरीभावनां करोति, तद्भावाभ्यासरूपत्वादिति गाथार्थः॥५२॥ निष्कृप-|
माह-'चङ्कमणादि' गमनासनादि शक्तः सन् क्वचित् सुनिष्कृपः-सुष्टु गतघृणः स्थावरादिसत्त्वेषु करोत्यजीवप्रतिपत्त्या, ४ कृत्वा वा चङ्क्रमणादि नानुतप्यते, केनचिन्नोदितः सन् , ईदृशो निष्कृपो भवति, लिङ्गमेतदस्येति गाथार्थः॥५३॥ निरनुकम्पमाह-यस्तु परं कम्पमानं दृष्ट्वा कुतश्चिद्धेतुतः न कम्पते कठिनभावः सन् क्रूरतया, एष पुनः निरनुकम्पो जीवः प्रज्ञप्तो वीतरागैः-आप्तैरिति गाथार्थः॥५४॥ उक्ताऽऽसुरीभावना, सम्मोहनीमाहउम्मग्गदेसओमग्गदूसओमग्गविप्पडीवत्ती।मोहेण य मोहित्ता सम्मोहंभावणं कुणइ।१६५५।पडिदार।
CASEASEARCCC
॥२३३॥
ORRECENTER
in Educat
i
onal
For Private & Personel Use Only
www.jainelibrary.org