________________
raणा तुरियई अणाणुवित्ती अ अवि गुरूणंपि ।
खण मित्तपीइरोसा गिहिवच्छलगा य संचइआ ॥ १६४० ॥ दारं ॥ गृह आयसहावं छायइ अ गुणे परस्स संतेऽवि ।
चो व सवसंकी गूढायारो हवइ मायी ॥ १६४१ ॥ दारं ॥
'ज्ञानस्य' श्रुतरूपस्य 'केवलिनां' वीतरागाणां 'धर्माचार्याणां' गुरूणां सर्वसाधूनां सामान्येन, भाषमाणोऽवर्णम्अश्लाघारूपं, तथा मायी सामान्येन यः स कैल्विषिकीं भावनां-तद्भावाभ्यासरूपां करोतीति गाथार्थः ॥ ३६ ॥ ज्ञानावर्णमाह-कायाः - पृथिव्यादयः व्रतानि - प्राणातिपातादिनिवृत्त्यादीनि तान्येव भूयो भूयः, तथा त एव प्रमादा: - मद्यादयः अप्रमादाश्च तद्विपक्षभूताः, तत्र तत्र कथ्यन्त इति पुनरुक्तदोषः, तथा मोक्षाधिकारिणां साधूनां 'ज्योतिषयोनिभ्यां' ज्योतिषयोनिप्राभृताभ्यां किं कृत्यं ?, न किञ्चिद् भवेहतुत्वादिति ज्ञानावर्णवादः, इह कायादय एव यलेन परिपालनीया इति तथा तथा तदुपदेश: उपाधिभेदेन मा भूद्विराधनेति, ज्योतिःशास्त्रादि च शिष्यग्रहणपालनफलमित्यदुष्टफलमेव सूक्ष्मधिया भावनीयमिति गाथार्थः ॥ ३७ ॥ केवल्यवर्णमाह-सर्वानपि प्राणिनो न प्रतिबोधयतीति न समवृत्तिः, नवा अविशेषेण ददात्युपदेशम्, अपि तु गम्भीरगम्भीरतरदेशनाभेदेन तथा परितप्यते न गुरुभ्योऽपि दानादिना, आस्तामन्यस्य, ज्ञातः सन्, एवमतिनिष्ठितार्थ एव, लौकिको गर्हाशब्द एषः, इति केवल्यवर्णवादः, नह्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org