SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. ५ संलेखनावस्तुनि अभ्युद्यतविहारे ॥ २२२ ॥ Jain Educat साधनं परमं बच्चरणं साध्यते कस्यचित्प्राणिनः शुभभावयोगेन हेतुना इति, न लब्ध्याद्यपेक्षयेति गाथार्थः ॥ ५९ ॥ आत्यन्तिकसुखहेतुरेतत्-चरणमन्येषां भव्यप्राणिनां नियमेनैव परिणमति, आत्मनोऽपि क्रियमाणमप्येषां हन्द्येवमेव आत्यन्तिकसुखहेतुत्वेनेति गाथार्थः ॥ ६० ॥ गुरुसंयमयोगोऽपि विज्ञेयः क्व ? इह स्वपरसंयमो यत्र, संयमे सम्यक् प्रवर्धमानः सन् सन्तत्या स्थविरविहारे चासौ भवति - स्वपरसंयम इति गाथार्थः ॥ ६१ ॥ अत्यन्तमप्रमादोऽपि 'भावतः ' परमार्थेन एष भवति ज्ञातव्यः 'एवंरूपः' यच्छुभभावेन सदा-सर्वकालं सम्यगन्येषां 'तत्करणं' शुभभावकरणमिति गाथार्थः ॥ ६२ ॥ यद्येवं किमिति मुनयः स्थविरविहारं विहाय गीतार्था अपि सन्तः प्रतिपद्यन्ते एनं जिनकल्पं ?, ननु कालो| चितमनशनसमान तद् आज्ञा भङ्गादिति गाथार्थः ॥ ६३ ॥ तत्काल एवोचितस्य पुंसः आज्ञाराधनाद्धेतोः प्रधान एषः | जिनकल्पः, इतरथा त्वात्महानिः, स्वकाले तदप्रतिपत्तौ, निष्फलशक्तिक्षयात् कारणाज्ज्ञेयेति गाथार्थः ॥ ६४॥ अथवाऽऽज्ञाभङ्गादात्महानिः, एष चाज्ञाभङ्गः अधिकगुणसाधनसमर्थस्य सतः हीनकरणेन हेतुना, आज्ञा एवं यदुत शक्त्या सदापि यतितव्यं, न तत्क्षयः कार्य इति गाथार्थः ॥ ६५ ॥ इतश्चैतदेवं स्वपरसंयमः श्रेयान् यद्दशपूर्विणां साधूनां श्रूयते 'सूत्रे' | आगमे एतस्य प्रतिषेधः - कल्पस्य तस्यान्यथा परोपकारद्वारेणाधिकगुणभावात् कारणादिति गाथार्थः ॥ ६६ ॥ एवं तत्त्वं ज्ञात्वा यथोक्तं सर्वैरेव विशेषत एतच्छतिर हितैः - जिन कल्पप्रतिपत्तिशक्तिशून्यैः स्वपरोपकारे, यलः कार्यः, यथा - शक्ति अप्रमत्तैः, महदेतन्निर्जराङ्गमिति गाथार्थः ॥ ६७ ॥ स च न स्थविरविहारं मुक्त्वा स्वपरोपकारः अन्यत्र भवति शुद्ध एव, नाशुद्ध, अत एव प्रतिषिद्धः सूत्रेऽजातोऽसमाप्त कल्पश्चेति गाथार्थः ॥ ६८ ॥ एतत्स्मरणमाह-अजातोऽगीतार्थानां ational For Private & Personal Use Only स्थविराम्यकल्पानां यथा कालता ॥ २२२ ॥ jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy