________________
श्रीपञ्चव. अनुयोगास्तवपरि
ज्ञायां
॥ १८९ ॥
Jain Educatio
शुद्धस्य तपसो मोक्षाङ्गभूतस्य हन्दि विषयोऽपि यथाशक्ति वा 'अतपस्वी' मोहपरतन्त्रो भावयति कथं भावनाजालं १, तत्त्वतो नैवेति गाथार्थः ॥ ९ ॥ अत्र च प्रक्रमे दानधर्मः द्रव्यस्तवरूप एव ग्राह्यः, अप्रधानत्वात् शेषास्तु सुपरिशुद्धाः शीलधर्म्मादयो ज्ञेयाः भावस्तवस्वरूपाः, प्रधानत्वादिति गाथार्थः ॥ १० ॥ इहैवातिदेशमाह
इअ आगमजुतीहि अ तं तं सुत्तमहिगिच्च धीरेहिं । दवत्थयादिरूवं विवेइयां सबुद्धीए ॥ १३११ ॥ 'इय' एवमागमयुक्तिभिस्तत्तत्सूत्रमधिकृत्य 'धीरैः' बुद्धिमद्भिः द्रव्यस्तवादिरूपं सम्यगालोच्य विवेक्तव्यं स्वबुद्ध्येति गाथार्थः ॥ ११ ॥ उपसंहरन्नाह
एसेह थयपरिण्णा समासओ वण्णिआ मए तुब्भं । वित्थरओ भावत्थो इमीऍ सुत्ताओं णायवो ॥ १३१२॥
एषेह स्तवपरिज्ञा पद्धतिः समासतो वर्णिता मया युष्माकं विस्तरतो भावार्थः 'अस्याः' स्तवपरिज्ञायाः सूत्रात् ज्ञातव्य इति गाथार्थः ॥ १२ ॥
एवंविहमपि हु सो वक्खाणे नवरमायरिओ । णाऊण सीससंपयमुज्जुत्तो पवयणहिअम्मि ॥१३१३॥ एवंविधमन्यदपि गम्भीरार्ध ज्ञानपरिज्ञादि स व्याख्यानयति नवरमाचार्यः स्थापितः सन् ज्ञात्वा शिष्यसम्पदमौचित्येन उद्युक्तः प्रवचनहिते - माहात्म्ये इति गाथार्थः ॥ १३ ॥ इअ अणुओगाणुण्णा लेसेण णिदंसिअत्ति इयरा उ । एअस्स चेव कज्जइ कयाइ अण्णस्स गुणजोगा१३१४
tional
For Private & Personal Use Only
दानादि
क्रमः अज्ञानपरिज्ञाति
देशः
॥ १८९ ॥
jainelibrary.org