________________
उपपन्नं भवति, न्याय्यमित्यर्थः यतेरपीति गाथार्थः ॥ २० ॥ इतरथा त्वनर्थकं तदुच्चारणं, न च तदनुच्चारणेन सा वन्दना भणिता यतेः, 'तत्' तस्माद् 'अभिसन्धारणेन' विशिष्टेच्छारूपेण सम्पादनमिष्टमेतस्य - द्रव्यस्तवस्येति गाथार्थः ॥ २१ ॥ साक्षात् स्वरूपेणैव कृत्स्नसंयमद्रव्याभावाभ्यां कारणाभ्यां नायमिष्टो द्रव्यस्तव इति गम्यते, 'तन्त्रस्थित्या' पूर्वापरनिरूपणेन, गर्भार्थमाह- भावप्रधाना हि मुनय इतिकृत्वोपसर्जनमयमिति गाथार्थः ॥ २२ ॥ एएहिंतो अण्णे धम्महिगारीह जे उ तेसिं तु । सक्खं चिअ विपणेओ भावंगतया जओ भणिओ ॥ १२२३॥ अकसिणपवत्तयाणं विरयाविरयाण एस खलु जुत्तो । संसारपयणुकरणो दवथए कूवदिट्टंतो ॥ १२२४ ॥
'एतेभ्यो' मुनिभ्योऽन्ये धर्माधिकारिण इह ये श्रावकास्तेषां तु साक्षादेव विज्ञेयः स्वरूपेणैव भावाङ्गतया हेतुभूतया, यतो भणितं वक्ष्यमाणमिति गाथार्थः ॥ २३ ॥ अकृत्स्नप्रवर्त्तकानां संयममधिकृत्य, विरताविरतानां प्राणिनामेष खलु युक्तः, स्वरूपेणैव, संसारप्रतनुकरणः शुभानुबन्धात् द्रव्यस्तवः, तस्मिन् कूपदृष्टान्तोऽत्र प्रसिद्धकथानकगम्य इति गाथार्थः २४ सो खलु पुप्फाईओ तत्थुत्तो ण जिणभवणमाईवि । आईसद्दा वृत्तो तयभावे कस्स पुप्फाई ? ॥ १२२५ ॥
स खलु - द्रव्यस्तवः पुष्पादिः तत्रोक्तः, 'पुप्फादीयं ण इच्छंति' प्रतिषेधप्रत्यासत्तेः, न जिनभवनादिरपि, अनधिकारादित्याशङ्कयाह - आदिशब्दादुक्को जिनभवनादिरपि, 'तदभावे' जिनभवनाद्यभावे कस्य पुष्पादिरिति गाथार्थः ॥ २५ ॥ णणु तत्थेव य मुणिणो पुप्फाइनिवारणं फुडं अत्थिाअत्थि तयं सयकरणं पडुच्च णऽणुमोअणाईवि ॥ १२२६॥
Jain Education International
For Private & Personal Use Only
4646
www.jainelibrary.org