________________
श्रीपञ्चव. अनुयोगानुज्ञा ४
व्याख्यानस्य श्रव
णस्य च विधिः गा. १००१-८
॥१५
॥
CELSO HASSASA ***
साधवः ते 'ततश्च' तदनन्तरमुपयुक्ताः सन्तः प्रत्युपेक्ष्य पोत्तिं तया कायं च युगपद्धन्दन्ते गुरुं, न विषम, भावनताः
सन्त इति गाथार्थः॥४॥ सर्वेऽपि च भूयः कायोत्सर्ग कुर्वन्ति अनुयोगप्रारम्भार्थ, तत्समाप्तौ च सर्वे पुनरपि वन्दन्ते है गुरुमेव, ज्येष्ठार्यमित्यन्ये , तदनु नासन्ने नातिदूरे गुर्ववग्रहं विहाय गुरुवचनप्रतीच्छका भवन्त्युपयुक्ता इति गाथार्थः॥
॥५॥श्रवणविधिमाहनिद्दाविगहापरिवजिएहिं गुत्तेहिं पंजलिउडेहिं । भत्तिबहुमाणपुवं उवउत्तेहिं सुणेअवं ॥१००६॥ अहिकखंतेहिं सुभासिआईवयणाइंअत्थमहुराई।विम्हिअमुहेहिं हरिसागएहिं हरिसं जणंतेहि॥१००७॥ गुरुपरिओसगएणं गुरुभत्तीए तहेव विणएणं । इच्छिअसुत्तत्थाणं खिप्पं पारं समुवयंति ॥१००८॥
निद्राविकथापरिवर्जितैः सद्भिः बाह्यचेष्टया, तथा गुप्तः-संवृतैः बाह्यचेष्टयैव, कृतप्राञ्जलिभिः, अनेन प्रकारेण भक्तिबहुमानपूर्व गुरौ उपयुक्तैः सूत्रार्थे श्रोतव्यमिति गाथार्थः॥६॥ तथा-अभिकाङ्क्षद्भिः-अभिलपद्भिः सुभाषितानि गुरोः सम्बन्धीनि वचनानि 'अर्थमधुराणि' परलोकानुगुणानि विस्मितमुखैः शोभनार्थोपलब्ध्यागतहर्षेः रोमोद्गमादिना हर्ष जनयद्भिपयुक्ततया गुरोरिति गाथार्थः॥७॥ अत्र फलमाह-गुरुपरितोषगतेन, गुरौ परितोषजातेनेत्यर्थः, गुरुभक्त्या तथैव विनयेन, भक्तिः-उपचारः विनयो-भावप्रतिबन्धः, ईप्सितसूत्रार्थानां विचित्राणां क्षिप्रं पारं समुपयान्ति, अनेनैव विधिना कर्मक्षयोपपत्तेरिति गाथार्थः॥८॥
॥१५१॥
For Private Personal Use Only
Jain Education remational
www.jainelibrary.org