SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १३८ ॥ Jain Education 'विधिना' आसनाचलनादिनेति गाथार्थः ॥ २ ॥ एतदेवाह - जिनधर्म सुस्थितानां सम्बन्धीनि शृणुयाच्चरितानि — चेष्टितानि पूर्वसाधूनां महात्मनां साधयेच्चान्येभ्यः, कथयेदित्यर्थः यथार्ह भावसाराणि, विनयपरिणत्यनुरूपाणीति गाथार्थः ॥ ३ ॥ यथा - भगवान् ! दशार्णभद्रो राजर्षिः सुदर्शनः स्थूलभद्रो वज्रश्च सफलीकृतगृहत्यागाः महापुरुषाः साधव | एवंविधा भवन्तीति गाथार्थः । कथानकानि क्षुण्णत्वान्न लिखितानि ||४|| तथैतत्कर्त्तव्यम्, अनुमोदामहे 'तेषां' दशार्णभद्रादीनां भगवतां चरितं निरतिचारं, यथोक्ताचारमित्यर्थः, संवेगबहुलतया 'एवम्' उक्तेन प्रकारेण सर्वत्र विशोधयेदात्मानं कर्ममलादिति गाथार्थः ॥ ५ ॥ अत्रैव गुणमाह-एवं क्रियमाणे आत्मनः स्थिरत्वं भवति, तथा ' तत्कुलवर्ती' दशार्णभद्रादिकुलवर्ती अहमित्यस्माद्बहुमानात् तद्धर्म्मसमाचरणं - दशार्णभद्रादिधर्म्मसेवनं भवति, एवमप्येतत् परोपाधिद्वारेण विशिष्टानुष्ठानं कुशलमेवावस्थान्तर इति गाथार्थः ॥ ६ ॥ अन्येषामपि चैवम् उक्तेन प्रकारेण स्थिरत्वादीनि भवन्ति, नियमेन श्रवणात् सकाशाद्, एवं शुभसन्तान एव, एवं तेभ्योऽपि तदन्येषां स्थिरत्वादिभावाद्, अयं च जन्मान्तरेऽपि 'विकथामथनो' विकथाविनाशनो मुणितव्यः, तदन्येषां तद्विनाशनेनेति गाथार्थः ॥ ७ ॥ अधिकृतद्वारगाथायां सर्वद्वाराणामेवैदम्पर्यमाह विस्सोअसिगारहिओ एव पयत्तेण चरणपरिणामं । रक्खिज दुलहं खलु लद्धमलन्द्धं व पाविज्जा ॥ ९०८ ॥ णो उवठावणएच्चि निअमा चरणंति दवओ जेण। साऽभवाणवि भणिआ छउमत्थगुरूण सफला य ९०९ ional For Private & Personal Use Only यतिकथा ऐदम्पर्य च ९०२-९ ॥ १३८ ॥ nelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy