________________
सहनशीलः, एतानाश्रित्य ‘साधारणावग्रहकात्' साधारणावग्रहनिमित्तं तथा 'अलब्धिकारणम्' अविद्यमानलब्धिनिमित्तं | 'पात्रग्रहणं तु' पात्रग्रहणमेव जिनैरभिहितं इति गाथार्थः ॥११॥ कल्पप्रमाणमाह
कप्पा आयपमाणा अड्डाइज्जा उ आयया हत्था। दो चेव सुत्तिआ उन्निओ अ तडओ मणेयहो॥८१२॥ ___ कल्पा आत्मप्रमाणाः, सातिरेका अनतिरेकमाना वा स्थविराणाम् , अर्द्धतृतीयांस्तु 'आयता' दीर्घा हस्तान् जिनकल्पिकानां, द्वावेव सौत्र ऊर्णामयश्च तृतीयः, एतेषां मन्तव्य इति गाथार्थः ॥ १२॥ एतत्प्रयोजनमाहतणगहणानलसेवानिवारणा धम्मसुक्कझाणट्ठा । दिटुं कप्पग्गहणं गिलाणभरणट्टया चेव ॥ ८१३ ॥
तृणग्रहणानलसेवानिवारणार्थ तथाविधसंहननिनां, तथा धर्मशुक्लध्यानार्थ समाध्यापादनेन, दृष्टं कल्पग्रहणं जिनैः, 'ग्लानमरणार्थ चैव' ग्लानमृतप्रच्छादनार्थमिति गाथार्थः ॥१३॥ अवसरप्राप्तं रजोहरणमानमाहहै बत्तीसंगुलदीहं चउवीसं अंगुलाई दंडो से । सेस दसा पडिपुण्णं रयहरणं होइ माणेणं ॥८१४ ॥
द्वात्रिंशदङ्गलं दीर्घ रजोहरणं भवति सामान्येन, तत्र चतुर्विंशतिरङ्गलानि दण्डः 'से' तस्य रजोहरणस्य 'शेषाः'। अष्टाङ्गुला दशाः, प्रतिपूर्ण सह पादपुञ्छननिषद्यया रजोहरणं भवति 'मानेन' प्रमाणेनेति गाथार्थः ॥ १४ ॥ प्रयोजनमाहआयाणे निक्खेवे ठाणनिसीअणतुअदृसंकोए । पुत्विं पमजणट्ठा लिंगट्ठा चेव रयहरणं ॥ ८१५ ॥
Jain Educ
a
tional
For Private & Personel Use Only
w.jainelibrary.org