________________
पञ्चव. २०
Jain Education
भाव्यात्, साधु तपो वनवास इति लोके गर्हा, निवारणं तद्रव्यान्यद्रव्याणां, तीर्थपरिहाणिलोंकाप्रवृत्त्येति गाथार्थः ॥ २२ ॥ विशेषतः स्थानादिदोषानाह - परिष्वष्कितं स्थितमोहायितं च विप्रेक्षितं च 'सविलासं' सविभ्रमं शृङ्गारांश्च बहुविधान् - विशिष्टचेष्टा (वेषा) दीन् दृष्ट्वा भुक्तेतरयोर्दोषाः - स्मृत्यादय इति गाथार्थः ||२३|| तद्गतानाह - ' जलमलपङ्कितानामपि बहुलमलस्निग्धाङ्गानामपीति भावः, लावण्यश्रीर्यथैषां साधुदेहानां श्रामण्येऽपि सुरूपा तथैवमहं मन्ये शतगुणा आसीद् गृहवास इति गाथार्थः ||२४|| शब्ददोपानाह - गीतानि च पठितानि च हसितानि च 'मञ्जुलांश्च' मधुरांश्चोल्लापान् भूषणशब्दान् राहत्यांश्च श्रुत्वा 'तथा' तेन भुक्तेतरप्रकारेण ये दोषा इति गाधार्थः ॥ २५॥ तद्गतानाह - गम्भीरो मधुरस्फुटो विशदः ग्राहकः सुस्वरः स्वरो यथैषां साधूनां स्वाध्यायस्य मनोहारी, गीतस्य तु कीदृशः भवति ?, शोभनतर इति गाथार्थः ॥ २६ ॥ 'एवम् उक्तेन प्रकारेण परस्परं मोहनीयदुर्विजयकर्म्मदोषेण भवति दृढं प्रतिबन्धः यस्मादेवं तस्मात् स्त्रीप्रतिबद्धं वर्जयेत्स्थानमिति गाथार्थः ॥ २७ ॥ पशुपण्डकेष्वपि 'इह' लोके मोहानलदीपितानां सच्चानां 'यद्' यस्मात् भवति प्रायोऽशुभा प्रवृत्तिः, पूर्वभवाभ्यासतः तथा भवतीति गाथार्थः ॥ २८ ॥ यस्मादेवं तस्माद्यथोक्तदोषवर्जितां वसतिं 'निर्ममो' ममत्वशून्यः निराशंसः इहलोकादिषु वसतिं सेवेत 'यतिः' साधुः, विपर्यये आज्ञादयो दोषा इति गाथार्थः ॥ २९ ॥ संसर्गदोषमाह
| वज्जिज्ज य संसग्गं पासत्थाईहिं पावमित्तेहिं । कुज्जा य अप्पमत्तो सुद्धचरितेहिं धीरेहिं ॥ ७३० ॥
For Private & Personal Use Only
44-196626
jainelibrary.org