SearchBrowseAboutContactDonate
Page Preview
Page 236
Loading...
Download File
Download File
Page Text
________________ श्रीपञ्चव. उपस्थापनावस्तु ३ ॥ १०९ ॥ योगः, कुत इत्याह- सुस्वामिविरहात् कुनृपविषयवासिजनवत्, तथा क्लिष्टजनमध्यवासात् चौरपल्लिवासिजनवदिति गाथार्थः ॥ ७९ ॥ तथा चालक्षणगृहवासयोगात् दुष्टपशुपुरुषवद्गृहवासिजनवत्, तथा दुष्टसङ्गतो विपरीतसङ्गतकारिजनवत्, तथैव स्थितिनिबन्धनविरुद्ध भक्तोपभोगाद् अपथ्यभोगजनवदिति गाथार्थः ॥ ८० ॥ तथा योगितवस्त्रादेः देहध्वंसितयोगयोगितोपकरणभोगिजनवत्, तथा अजीर्णभोगाद् अजीर्णसङ्कलिकायुक्तजनवत्, तथा कुविचाराद् राजापथ्यविचार मुखरजनवत्, तथा अशुभाध्यवसानाद् देहविरुद्धकोधादिभावनाप्रधानजनवत्, तथा अयोग्यस्थानविहारात् प्रदीप्ताद्यनिर्गत जनवदिति गाथार्थः ॥ ८१ ॥ तथा च विरुद्धकथातश्च राजाद्यपभाषिजनवत्, प्रकटं दृश्यत एतद् 'वित्तपत्तयोऽपि ' महाधनिन इत्यर्थः, लोकेऽस्मिन् प्राप्नुवन्ति वित्तविनाशं भूयो दरिद्रा भवन्ति 'तथा तथा' उक्तवदकुशलयो - गेनेति गाथार्थः ॥ ८२ ॥ सुस्वाम्यादेः पुनः उक्तकदम्बकविपर्ययात् तथा तथा तदुपकारतः तत्प्रभावयोगेन हेतुभूतेन वर्द्धयन्ति वित्तमनघं - शोभनं वित्तपतयः सुखावहमुभयलोके - उभयलोक हितमिति गाथार्थः ॥ ८३ ॥ दार्शन्तिकयोजनमाह - एवमेव भाववित्तं हन्दि चारित्रमपि नियमतो ज्ञेयं, चयापचयवत्, अत्र सुस्वामिजनगृहादितुल्यास्तु गुर्वादयो वेदितव्या इति गाथार्थः ॥ ८४ ॥ कुत इत्याह- एतेषां 'प्रभावेन' सामर्थ्यन 'विशुद्धस्थानानां ' गुर्वादीनां चरणहेतूनामप्रतिबद्ध सामार्थ्यानां नियमादेव चारित्रं वर्द्धते नात्रान्यथाभावः, विधिसेवनापराणां सुशिष्याणामिति गाथार्थः ॥ ८५ ॥ एवमेवेत्युक्तं, तदपवादमाह - वित्ते स्वाम्यादिषु शोभनेतरेषु नवरं विभाषापि दैवयोगेन चयापचयावाश्रित्य, आज्ञाविराधनात् कारणादाराधनातश्च अशोभनादिषु, नत्वत्र भाववित्त इति गाथार्थः ॥ ८६ ॥ एतदेव स्पष्टयति Jain Education International For Private & Personal Use Only शुभगुरुयोगमहिमा ॥ १०९ ॥ www.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy