________________
4%
9568
भवतीत्येतदाह च, मनोवाक्काययोगैरसम्यगपि नमनं भवतीति सम्यग्ग्रहणं; आह-एवमपि सम्यगित्येतदेवास्तु, अलं| मनोवाक्काययोगग्रहणेन !, सम्यग्नमनस्य तदव्यभिचारित्वात्, नैतदेवम्, एकपदव्यभिचारेऽपि “अद्रव्यं पृथिवीद्रव्यं" इत्यादौ विशेषणविशेष्यभावदर्शनादिति । न केवलं वर्द्धमानं नत्वा, किन्तु सङ्घ च सम्यग्दर्शनादिसमन्वितप्राणिगणं च । नत्वा, किम् ? इत्याह-पञ्चवस्तुकं यथाक्रम कीर्तयिष्यामि, प्रव्रज्याविधानादीनि पञ्चवस्तूनि यस्मिन् प्रकरणे तत्पञ्चवस्तु,४ पञ्चवस्त्वेव पञ्चवस्तुकं ग्रन्थं, यथाक्रममिति यो यः क्रमो यथाक्रमः यथापरिपाटि, कीर्तयिष्यामि-संशब्दयिष्यामि । इति गाथार्थः॥१॥ अधिकृतानि पञ्चवस्तून्युपदर्शयन्नाह। पव्वज्जाए विहाणं पइदिणकिरिया वएसु ठवणा य । अणुओगगणाणुपणा संलेहण मोइइ पंच ॥२॥
'प्रव्रज्यायाः' वक्ष्यमाणलक्षणायाः 'विधानम्' इतिविधिः तथा 'प्रतिदिनक्रिया' इति, प्रतिदिन-प्रत्यहं क्रिया-चेष्टा प्रतिदिनक्रिया, प्रव्रजितानामेव चक्रवालसामाचारीति भावः । तथा 'व्रतेषु स्थापना च' इति, "हिंसाऽनृतस्तेयाऽब्रह्मपरिग्रहेभ्यो विरतयः व्रतानि" तेषु स्थापना-सामायिकसंयतस्योपस्थापनेत्यर्थः । ननु व्रतानां स्थापनेति युक्तम्, तत्र तेषामा-18 रोप्यमाणत्वात्; उच्यते, सामान्येन व्रतानामनादित्वात् तेषु व्रतेषु तस्योपस्थाप्यमानत्वात्, इत्थमप्यदोष एव । तथा 'अनुयोगगणानुज्ञा' इति अनुयोजनमनुयोगः, सूत्रस्य निजेनाभिधेयेन सम्बन्धनं व्याख्यानमित्यर्थः, गणस्तु गच्छोऽभिधीयते, अनुयोगश्च गणश्चानुयोगगणौ तयोरनुज्ञा प्रवचनोक्तेन विधिना स्वातछ्यानुज्ञानमिति । 'संलेखना' चेति संलिख्यते शरीरकषायादि यया तपःक्रियया सा संलेखना, यद्यपि सर्वैव तपः क्रिये (त्थं) यं तथाऽप्यत्र चरमकालभाविनी है
"
Join Educational
For Private Personel Use Only
lainoltrary arg