________________
श्रीपञ्चवस्तुके.
णमिऊण वद्धमाणं सम्ममणवयणकायजोगेहिं । संघं च पंचवत्थुगमहक्कम कित्तइस्सामि ॥१॥ प्रव्रज्यातत्र शिष्टानामयं समयः, यदुत-'शिष्टाः क्वचिदिष्टे वस्तुनि प्रवर्त्तमानाः सन्त इष्टदेवतानमस्कारपूर्वक प्रवर्तन्ते'
विधानं इति, अयमपि आचार्यों नहि न शिष्ट ! इत्यतः तत्समयपरिपालनाय, तथा श्रेयांसि बहुविध्नानि भवन्तीति, उक्तं च- १द्वारम्BIश्रेयांसि बहुविघ्नानि भवन्ति महतामपि । अश्रेयसि प्रवृत्तानां क्वापि यान्ति विनायकाः ॥१॥” इदं च प्रकरणं
सम्यग्ज्ञानहेतुत्वाच्छ्रेयोभूतम्, अतो माभूद्विघ्न ! इति विघ्नविनायकोपशान्तये 'नमिऊण वद्धमाणं सम्म मणवयणकायजोगेहिं संघंच' इत्यनेनेष्टदेवतास्तवमाह, प्रेक्षापूर्वकारिणश्च प्रयोजनादिशून्ये न प्रवर्तन्ते इति, उक्तं च-"सर्वस्यैव हि शास्त्रस्य कर्मणो वाऽपि कस्यचित् । यावत्प्रयोजनं नोक्तं तावत् तत्केन गृह्यते ॥१॥” इत्यादि, अतः प्रयोजनादि-12 प्रतिपादनार्थ च 'पंचवत्थुगमहक्कम कित्तइस्सामि' इत्येतदाह-प्रकरणार्थकथनकालोपस्थितपरसम्भाव्यमानानुपन्यासहेतुनिराकरणार्थं वा; तथाहि-पञ्चवस्तुकाख्यं प्रकरणमारभ्यत इत्युक्ते सम्भावयत्येवं वादी परः-नारब्धव्यमेवेदं प्रकरणं, प्रयोजनरहितत्वात् , उन्मत्तकविरुतवत् । तथा निरभिधेयत्वात् , काकदन्तपरीक्षावत् । तथाऽसम्बन्धत्वात् , दशदाडिमानीत्यादि वाक्यवत् । अतोऽमीषां हेतूनामसिद्धतोद्विभावयिषयेत्येतदाह 'पंचवत्थुगमहक्कम कित्तइस्सामि' एप तावद्गाथाप्रस्तावः समुदायार्थश्च ॥ अधुनाऽवयवार्थोऽभिधीयते-नत्वा प्रणम्य, के? इत्याह-वर्द्धमानं-वर्तमानतीर्थाधिपति तीर्थकर, तस्य हि भगवत एतन्नामः यथोक्तं-'अम्मापिउसंति वद्धमाणे इत्यादि, कथं 'नत्वा' इत्यत आह-सम्यग्मनोवाक्काययोगैः'-सम्यगिति प्रवचनोक्तेन विधिना, मनोवाकाययोगैमनोवाक्कायव्यापारैः, अनेनैवंभूतमेव भाववन्दनं
TO
तथाहि-पञ्चवस्तुकार तथा निरभिधेयत्वापयेत्येतदाह 'पंचवमाह-वर्द्धमानं
SHARABANA
Jain Educatiohit ional
For Private & Personel Use Only
hinelibrary.org