________________
श्रीपञ्चव. प्रतिदिन
क्रिया २
॥ ९३ ॥
Jain Educatier
एत्तो तित्थयरत्तं सर्व्वनुत्तं च जायइ कमेणं ।
इअ परमं मोक्खंगं सज्झाओ होइ णायवो ॥ ५६६ ॥ दारं ॥
आत्मपरसमुत्तारः स्वाध्यायात् शुभयोगेन तथा आज्ञावात्सल्यं तथा आज्ञादीपना तथा आज्ञाभक्तिर्भवति, परदेशकत्वे सति, न केवलमेतद्, अव्यवच्छित्तिश्च तीर्थस्य भवतीति गाथार्थः ॥ ६५ ॥ 'अतो' वात्सल्यादेर्गुणगणात् तीर्थकरत्वं उत्सर्गतः सर्वज्ञत्वं वा सामान्येन जायते 'क्रमेण' जन्मजन्माभ्यासेन, 'इय' एवं 'परमं' प्रधानं मोक्षाङ्गं स्वाध्यायो भवति ज्ञातव्य इति गाथार्थः ॥ ६६ ॥
एसो य सया विहिणा कायवो होइ अप्पमत्तेणं । इहरा उ एअकरणे भणिया उम्मायमाईआ ॥ ५६७ ॥
'एषः ' स्वाध्यायः सदा विधिना नाविधिना कर्त्तव्योऽप्रमत्तेन सता 'इतरथा तु' अविधिना पुनरेतत्करणे भणिताः प्रवचने उन्मादादयो दोषाः इति गाथार्थः ॥ ६७ ॥ तानेवाह
| उम्मायं व लभिज्जा रोगायकं व पाउणे दीहं । केवलिपन्नत्ताओ धम्माओ वावि भंसिज्जा ॥ ५६८ ॥ उन्मादं वा लभेत - चित्तविभ्रमरूपं, रोगातङ्कं वा प्राप्नुयात् दीर्घ-क्षयज्वरादि, केवलिप्रज्ञप्तात् पारमार्थिकात् धर्म्माद्वा-चारित्रादेः भ्रश्येत् विपरीत प्रतिपत्स्येति गाथार्थः ॥ ६८ ॥ लहुगुरुगुरुतरगम्मि अ अविहिम्मि जहकमं इमे णेया । उक्कोसगाविहीओ उक्कोसो धम्मभंसोत्ति ॥५६९ ॥
For Private & Personal Use Only
अविधिस्वाध्याये
दोषाः
॥ ९३ ॥
inelibrary.org