________________
Jain Educat
अण्णे भांति जइणो तिविहाहारस्स तं खलु न जुत्तं । सधविरईउ एवं भेअग्गहणे कहं सा उ ? ॥ ५२८ ॥ अन्ये भणन्ति-दिगम्बरादयः 'यतेः' प्रव्रजितस्य 'त्रिविधाहारस्य' अशनादेः' तद्' इत्वरप्रत्याख्यानं खलु 'न युक्त' न साधु, कुत इत्याह- सर्वविरतेः कारणाद्, अस्या एवं भेदग्रहणेऽन्यतरत्यागेन कथं सा सर्वविरतिरिति गाथार्थः ॥ २८ ॥ अत्र परिहारमाह
णणु अप्पमायसेवणफलमेअं दंसिअं इहं पुष्टिं । तब्भोगमित्तकरणे सेसच्चाया तओ अहिओ ॥ ५२९ ॥ नन्वप्रमादसेवनाफलमेतत्-इत्वरप्रत्याख्यानं दर्शितमिह पूर्व, 'तन्मात्र भोग करणे' पानमात्रासेवने इत्यर्थः 'शेषत्यागाद्' अशनादित्यागाद् 'असो' अप्रमादोऽधिकः, अतो नायुक्तमिति गाथार्थः ॥ २९ ॥
एवं कहंचि कज्जे दुविहस्सवि तं न होइ चिन्तमिअं । सच्चं जइणो नवरं पाएण न अन्नपरिभोगो ॥५३०॥
एवं सूक्ष्मक्षिकायां कथञ्चित् 'कार्ये' ग्लानादौ द्विविधस्याप्याहारस्य 'तद्' इत्वरप्रत्याख्यानं न भवति ?, चिन्त्यमिदम्, एतदपि प्राप्नोतीत्यर्थः, एतदाशङ्कयाह - सत्यमिष्यत एतत्, 'यतेः' प्रव्रजितस्य नवरं 'प्रायशो' बाहुल्येन 'नान्यपरिभोगो' न स्वाद्यादिसेवनमतोऽनाचरणेति गाथार्थः ॥ ३० ॥ ॥ ' आकारैर्विशुद्ध 'मिति व्याख्यातम्, अधुना 'उपयुक्ता' इत्यादि व्याचिख्यासुराह-
उवओगो एवं (अं) खलु एआ विगई नवित्ति जो जोगो । उच्चरणाई उविही उडूंपि अ कजभोगगओ ॥ ५३१॥
ational
For Private & Personal Use Only
त्रिविधस्यापि प्रत्याख्यानं
ww.jainelibrary.org