SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ व्यापाराः प्रवेश निर्गमवारणयोगाः अतस्तेषु वैरिनिराकरणोपायभूतेषु सामायिक सिद्ध्युपायभूतनमस्कारसहितादिकल्पेषु यथैवापवादा:आकारास्तत्कारणभजनालक्षणा महत्तराकारादिकल्पा भवन्ति, कथमित्याह – 'मूलाबाधया' मूलभूतस्य मर्त्तव्यं जयो वाऽवाप्तव्य इत्येवंलक्षणस्याध्यवसायस्याविचलिततया ' तथा ' तेनैव प्रकारेण 'नमस्कारादौ' नमस्कारसहितादौ प्रत्याख्याने ' आकारा: ' अपवादा महत्तरादिलक्षणा मूलाबाधया सुभटभावकल्पसामायिकाबाधया भवन्तीति गाथार्थः ||२३|| मूलाबाधामेव स्पष्टयन्नाह - 'न च' नैव 'तस्य' सामायि कवतः सुभटस्य च 'तेष्वपि' अपवादेष्वपि सत्सु, आस्तामन्यत्र, 'तथा' तत्प्रकार इष्टानिष्टार्थतुल्यतारूपो जीवितानपेक्षी च 'निरभिष्वङ्गस्तु' निराशंस एव सन् ' भवति' जायते 'परिणामः' अध्यवसायोऽन्यथारूपः प्रतिकारः - प्रायश्चित्तप्रतिपत्तिरूपः सुभटपक्षे तु शरणादिरूपः स एव लिंगं-चिह्नं तेन सिद्धो यः स तथा, तुशब्दः पूरणार्थी, 'नियमाद्' अवश्यंभावेन अन्यथारूपः, सामिष्वङ्ग इत्यर्थः, इदमुक्तं भवति - यदा सामायिकवतो महत्तराद्याकारेषु सत्सु साभिष्वङ्गः परिणामोऽभविष्यत्तदा तच्छुद्धये प्रायश्चित्तमकरिष्यत्, न च एवं, ततस्तस्याकारेष्वपि सत्सु निरभिष्वङ्ग एव परिणाम:, अतः साधूक्तं मूलाबाधयेति गाथार्थः ॥ २४ ॥ अपवादाश्रयणेऽपि न मूलभावबाधा भवतीत्येतदेव सविशेषं दर्शय| न्नाह - नच 'प्रथमभावव्याघातः 'आद्याध्यवसायबाधा, प्रत्याख्यानपक्षे सामायिकबाधा सुभटपक्षे जयाध्यसायबाधा, मो इतिनिपातः पादपूरणे, तुशब्दः पुनरर्थः, तत्सम्बन्धश्च दर्शयिष्यते, 'एवमपि' अनन्तरोक्तापवादाश्रयणेऽपि, 'अपिचे' त्यभ्युच्चये, 'तत्सिद्धि:' प्रथमभावस्य विशेषतो निष्पत्ति: 'एवमेव ' अपवादाश्रयण एवं 'भवति' जायते 'दृढम्' अत्यर्थं, आकारवत् प्रत्याख्यानाश्रयणस्य तदुपायत्वात् रिपुविजये प्रवेशादिभजनाया इवेति, 'इतरथा' पुनरपवादवत्प्रत्याख्यानानाश्रयणे पुनः 'व्यामोहप्रायं तु' मूढताप्रख्यमेव सामायिकं सुभटस्य विजयाध्यवसानं वा भवेद्, उपायत एव तत्सिद्धेरिति गाथार्थः ॥ २५ ॥ Jain Education Intemational For Private & Personal Use Only सामायिके आकारा भावः w.jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy