________________
व्यापाराः प्रवेश निर्गमवारणयोगाः अतस्तेषु वैरिनिराकरणोपायभूतेषु सामायिक सिद्ध्युपायभूतनमस्कारसहितादिकल्पेषु यथैवापवादा:आकारास्तत्कारणभजनालक्षणा महत्तराकारादिकल्पा भवन्ति, कथमित्याह – 'मूलाबाधया' मूलभूतस्य मर्त्तव्यं जयो वाऽवाप्तव्य इत्येवंलक्षणस्याध्यवसायस्याविचलिततया ' तथा ' तेनैव प्रकारेण 'नमस्कारादौ' नमस्कारसहितादौ प्रत्याख्याने ' आकारा: ' अपवादा महत्तरादिलक्षणा मूलाबाधया सुभटभावकल्पसामायिकाबाधया भवन्तीति गाथार्थः ||२३|| मूलाबाधामेव स्पष्टयन्नाह - 'न च' नैव 'तस्य' सामायि कवतः सुभटस्य च 'तेष्वपि' अपवादेष्वपि सत्सु, आस्तामन्यत्र, 'तथा' तत्प्रकार इष्टानिष्टार्थतुल्यतारूपो जीवितानपेक्षी च 'निरभिष्वङ्गस्तु' निराशंस एव सन् ' भवति' जायते 'परिणामः' अध्यवसायोऽन्यथारूपः प्रतिकारः - प्रायश्चित्तप्रतिपत्तिरूपः सुभटपक्षे तु शरणादिरूपः स एव लिंगं-चिह्नं तेन सिद्धो यः स तथा, तुशब्दः पूरणार्थी, 'नियमाद्' अवश्यंभावेन अन्यथारूपः, सामिष्वङ्ग इत्यर्थः, इदमुक्तं भवति - यदा सामायिकवतो महत्तराद्याकारेषु सत्सु साभिष्वङ्गः परिणामोऽभविष्यत्तदा तच्छुद्धये प्रायश्चित्तमकरिष्यत्, न च एवं, ततस्तस्याकारेष्वपि सत्सु निरभिष्वङ्ग एव परिणाम:, अतः साधूक्तं मूलाबाधयेति गाथार्थः ॥ २४ ॥ अपवादाश्रयणेऽपि न मूलभावबाधा भवतीत्येतदेव सविशेषं दर्शय| न्नाह - नच 'प्रथमभावव्याघातः 'आद्याध्यवसायबाधा, प्रत्याख्यानपक्षे सामायिकबाधा सुभटपक्षे जयाध्यसायबाधा, मो इतिनिपातः पादपूरणे, तुशब्दः पुनरर्थः, तत्सम्बन्धश्च दर्शयिष्यते, 'एवमपि' अनन्तरोक्तापवादाश्रयणेऽपि, 'अपिचे' त्यभ्युच्चये, 'तत्सिद्धि:' प्रथमभावस्य विशेषतो निष्पत्ति: 'एवमेव ' अपवादाश्रयण एवं 'भवति' जायते 'दृढम्' अत्यर्थं, आकारवत् प्रत्याख्यानाश्रयणस्य तदुपायत्वात् रिपुविजये प्रवेशादिभजनाया इवेति, 'इतरथा' पुनरपवादवत्प्रत्याख्यानानाश्रयणे पुनः 'व्यामोहप्रायं तु' मूढताप्रख्यमेव सामायिकं सुभटस्य विजयाध्यवसानं वा भवेद्, उपायत एव तत्सिद्धेरिति गाथार्थः ॥ २५ ॥
Jain Education Intemational
For Private & Personal Use Only
सामायिके
आकारा
भावः
w.jainelibrary.org