________________
पश्चव. १३
तत्तो इत्थिनपुंसा तिविहा तत्थवि असोअवाईसु । तहिअं तु सद्दकरणं आउलगमणं कुरुकुआ या ॥ ४३३ ॥ ततः स्त्रीनपुंसकानि त्रिविधाः प्राकृतादिभिर्भेदेन, अपवादचिन्तायां चिन्तनीयानीति शेषः, तथा चाह - तत्रापि, 'अशौचवादिष्विति अशौचवाद्यापातवति स्थण्डिल इत्यर्थः, यतनामाह - तत्र तु शब्दकरणपूर्वमेव ' आकुलगमनं' संरम्भगमनं कुरुकुचा च पूर्ववदिति गाथार्थः ॥ ३३ ॥ प्रतिद्वारगाथायां व्याख्यातं स्थण्डिलद्वारम्, साम्प्रतमावश्यकाद्याहसण्णाए आगओ चरमपोरिसिं जाणिऊण ओगाढं । पडिलेहेइ अ पत्तं नाऊण करेइ सज्झायं ॥ ४३४ ॥
संज्ञाया आगतः सन् चरमपौरुषीं ज्ञात्वा 'अवगाढाम् ' आगतामित्यर्थः, प्रत्युपेक्षते उपकरणमिति गम्यते, अप्राप्तां ज्ञात्वा चरमां करोति स्वाध्यायमिति गाथार्थः ॥ ३४ ॥
पुव्वुद्दिट्ठो अ विही इहंपि पडिलेहणाऍ सो चैत्र । जं इत्थं नाणत्तं तमहं वोच्छं समासेणं ॥ ४३५ ॥
पूर्वोद्दिष्ट एव विधिः, 'छप्पुरिम' मित्यादिना अत्रापि प्रतिलेखनायां स एव द्रष्टव्यः, यदत्र नानात्वं किमपि तदहं वक्ष्ये 'समासेन' सङ्क्षेपत एवेति गाथार्थः ॥ ३५ ॥
| पडिलेहगा उ दुविहा भत्तट्ठिअ एअरा उ नायवा । दोपहविअ आइपडिलेहणा उ मुहणंतग सकायं ॥ ४३६॥
प्रतिलेखकाः पुनर्द्विविधाः - 'भक्तार्थिनो' ये तस्मिन्नहनि भुञ्जते 'इतरे तु' अभक्तार्थिनो ये न भुञ्जते इति ज्ञातव्याः, द्वयोरपि चानयोः आदिप्रतिलेखना पुनर्मुखानन्तकें - मुखवस्त्रिकां 'स्वकार्य' स्वदेहं चाङ्गीकृत्य प्रवर्त्तत इति गाथार्थः ॥ ३६ ॥
Jain Education International
For Private & Personal Use Only
पाश्चात्यप्र तिलेखना
gainelibrary.org