________________
श्रीपञ्चव. प्रतिदिन
स्वाध्यायः मण्डली निमन्त्रणं
क्रिया २
॥ ५७॥
उक्तध्यानानन्तरं "विनयेन' वन्दनादिना प्रस्थाप्य स्वाध्यायं करोति, ततो मुहूर्त स्वाध्यायमेव, करोतीति वर्तमाननिर्देशस्तुलादण्डमध्यग्रहणन्यायतः त्रिकालगोचरसूत्रसङ्ग्रहार्थः, स्वाध्यायकरणे गुणमाह-एवं तु' स्वाध्यायकरणेन 'क्षोभदोषाः' वातादिधातुक्षोभापराधाः 'परिश्रमादयः' स्वाङ्गिका भवन्ति 'जढा' परित्यक्ता इति गाथार्थः॥४२॥ दुविहो अहोइ साहू मंडलिउवजीवओ अइअरोअ। मंडलिउवजीवंतो अच्छइ जा पिंडिआ सवे ॥३४॥
द्विविधश्चासावपि साधुः, कतमेन द्वैविध्येनेत्याह-मण्डल्युपजीवकश्चेतरश्च-अनुपजीवकश्च, उपजीवको-मण्डलीभोक्ता | अनुपजीवकः-कारणतः केवलभोक्ता, तत्र 'मण्डलिमुपजीवन्' मण्डल्युपजीवकः तावत्तिष्ठति गृहीतसमुदान एव यावत्पिण्डिताः सर्वे तन्मण्डलिभोक्तार इति गाथार्थः॥४३॥ | इअरो संदिसहत्ति अ पाहुणखमणे गिलाण सेहे।अहरायणिअंसवे चिअत्तेण(त)निमंतए एवं ॥३४४॥ | 'इतरो' मण्डल्यनुपजीवकः सन्दिशतेति च गुरुं आपृच्छय तद्वचनात् प्राघूर्णकक्षपकग्लानशिष्यकांश्च 'यथारत्नाधिक' यथाज्येष्ठार्यतया सर्वान् 'चियत्तेणं ति भावतो मनःप्रीत्या निमन्त्रयेत्, एवमाग्रहत्यागः समानधार्मिकवात्सल्यं च कृतं भवतीति गाथार्थः॥४४॥ दिन्ने गुरूहि तेहिं सेसं भुंजेज गुरुअणुण्णाओ । गुरुणा संदिट्ठो वा दाउं सेसं तओ भुंजे ॥ ३४५॥
तत्र यदि प्राघूर्णकादयोऽर्थिनस्तत आगत्य गुरोनिवेदयति, ततश्च गुरुः प्राघूर्णकादिभ्यो ददाति, इत्थं दत्ते गुरुभिः
॥ ५७॥
"
Jain Education
a
l
For Private & Personel Use Only
www.jainelibrary.org