SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ 'पुरुषोपधिविपर्यास' इति पुरुषविपर्यासो-गुरुं विहाय प्रत्याख्यानिन इत्यादिरूपः, उपधिविपर्यासस्तु प्रथमं बहुपरिकर्म्मादेः तदनु यथाकृतस्य, उपलक्षणत्वा चैतस्य पूर्वाह्णे प्रथमं भाजनानां तदनु वस्त्राणां अपराह्णे विपर्ययः, एष विपर्यासः, अयं च न कर्त्तव्य इति, अपवादमाह - सागारिके उपधौ तथा अनुचिते कुर्यादुपधिविपर्यासं, मा भूत् तत्र बहुमान इतरस्य वा सङ्केश इति, एवं गुरोराभिग्राहिके सति आपृच्छयैव गुरुम् आभिग्राहिकसम्पदा प्रभवति सति गुरौ 'इतर' इत्यन्येषां प्रत्याख्यानिप्रभृतीनां प्रत्युपेक्षेत, अन्यथा 'वितथ' मिति वितथं प्रत्युपेक्षणं भवतीति गाथार्थः ॥ ६१ ॥ उपसंहरन्नाहअप्पडिले हिय दोसा आणाई अविहिणावि ते चेव । तम्हा उसिक्खिअवा पडिलेहा सेविअव्वा य ॥२६२॥ दारं | अप्रत्युपेक्षिते उपधावति गम्यते दोषाः आज्ञादयः - आज्ञाऽनवस्थादयः, अविधिनाऽपि प्रत्युपेक्षिते त एव दोषा इति, यस्मादेवं तस्माच्छिक्षितव्या प्रत्युपेक्षणेति, तदुपलक्षिता प्रमार्जनादिक्रिया, सेवितव्या च यथाऽऽगममिति गाथार्थः ॥ ६२ ॥ प्रतिद्वारगाथायां प्रत्युपेक्षणेति व्याख्यातमाद्यद्वारम् अधुना द्वितीयद्वारमाह Jain Educationtional पडिलेहिऊण उवहिं गोसंमि पमज्जणा उ वसहीए । अवरहे पुण पढमं पमज्जणा पच्छ पडिलेहा ॥ २६३ ॥ For Private & Personal Use Only jainelibrary.org
SR No.600102
Book TitlePanchvastuka Granth
Original Sutra AuthorHaribhadrasuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1927
Total Pages630
LanguageSanskrit
ClassificationManuscript
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy