________________
ण तु विसमताएँ ता कह सयलत्थमिणं ति वत्तवं ? ॥ १३६५॥ ननु यत्-यस्मात् दर्शनेन समताधर्मविशिष्टं सर्व वस्तु गृह्यते, नतु विषमतया विशिष्टं, 'ता' तस्मात्कथमिदं दर्शनं सकलार्थविषयमिति वक्तव्यम् ? ॥१३६५॥
एव विवज्जासेणं णाणस्स वि असयलत्थया णेया ।
उभयग्गहणे [य] दोण्ह वि अविसेसो पावती णियमा ॥ १३६६ ॥ एवं-दर्शनस्येव ज्ञानस्यापि विपर्यासेनासकलार्थता ज्ञेया, यथा ज्ञानेन विषमताधर्मविशिष्टं सर्व वस्तु गृह्यते, न समताविशिष्टं, तत्कथमिदं ज्ञानं सकलार्थविषयमिति । अथैतद्दोषभयादेवमिष्यत यदुत-ज्ञानेनापि सामान्यविशेषात्मकतया सर्व वस्तु गृह्यते तथा दर्शनेनापीति तत्राह-उभयग्रहणे-सामान्यविशेषग्रहणे द्वयोरपि-ज्ञानदर्शनयोरभ्युपगम्यमाने सति नियमात्तयोरविशेषः प्राप्नोति । परिच्छेद्यकृतो हि विशेषः सोऽपि चेदानीमपगत इति कथमनयोः परस्परं विशेषः ॥ १३६६ ॥ अत्राचार्य आह
समएतरधम्माणं भेदाभेदम्मि ण खल्लु अण्णोण्णं । णिरवेक्खमेव गहणं इय सयलत्थे तओ दो वि ॥ १३६७ ॥
web-२२ॐॐ
Jain Education in
For Private & Personel Use Only
ainelibrary.org