SearchBrowseAboutContactDonate
Page Preview
Page 5
Loading...
Download File
Download File
Page Text
________________ Jain Education I (४) बृहद्गच्छीय श्रीमानदेवसूरिसन्तानीयः श्रीजिनदेवोपाध्यायशिष्यः, योऽणहिलपुरे यशोनागनायकदत्तोपाश्रयस्थितः सिद्धराजराज्ये ११८५ मितविक्रमवर्षे वाचकमुख्यस्योमाखातेः प्रशमरतिनाम्नो ग्रन्थस्य विवरणमरीरचत्, यतस्तत्प्रशस्तौ ग्रन्थकार एव यत्यालये मन्दगुरूपशोभे सन्मङ्गले सत्कविराजहंसे । तारापथे वा सुकविप्रचारे श्रीमान देवाभिधसूरिगच्छे ॥ १ ॥ भव्या बभूवुः शुभशस्यशिष्या अध्यापकाः श्रीजिनदेवसंज्ञाः । तेषां विनेयैर्वहुभक्तियुक्तैः प्रज्ञाविहीनैरपि शास्त्ररागात् ॥ श्रीहरिभद्राचार्यै रचितं प्रशमरतिविवरणं किञ्चित् । परिभाव्य वृद्धटीकाः सुखबोधार्थं समासेन ॥ ३॥ अहिलपाटकनगरे श्रीमज्जयसिंहदेवनृपराज्ये । बाण-वसु-रुद्रसंख्ये विक्रमतो वत्सरे व्रजति ॥ ४ ॥ श्रीधवलभाण्ड शालिक पुत्रयशोनागनायकवितीर्णे । सदुपाश्रये स्थितैस्तैः समर्थितं शोधितं चेति ॥ ५ ॥" इतिपद्यैर्व्यतिकरमिमं निवेदितवान् । (५) नागेन्द्रगच्छीयः कलिकाल गौतमविरुदधारी श्रीमदानन्दसूर्यमरचन्द्रसूर्योः पट्टधरः प्रसिद्धमत्रिवस्तुपाल कुलगुरुश्रीविजयसेनसूरीणां गुरुश्च सिद्धराजराज्यकालात् किञ्चिदर्वाचीनः । तदिदं वृत्तमुदयप्रभसूरेर्धर्माभ्युदय महाकाव्य प्रशस्तिसम्बन्धिनाऽनेन काव्यचतुष्टयेनाऽवगम्यते आनन्दसूरिरिति तस्य बभूव शिष्यः पूर्वोऽपरः शमधरोऽमरचन्द्रसूरिः । For Private & Personal Use Only Tainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy