SearchBrowseAboutContactDonate
Page Preview
Page 4
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार ॥ १ ॥ Jain Education “पश्चाजिनेश्वरसूरिभिर्विहारक्रमं कुर्वद्भिर्जिनचन्द्रा - ऽभयदेव - धनेश्वर - हरिभद्र - प्रसन्नचन्द्र - धर्मदेव - सहदेव - सुमतिप्रभृतयो बहवः शियाश्चक्रिरे । ततो वर्धमानसूरयः श्रीसिद्धान्तविधिना समाधिना देवलोकश्रियं प्राप्ताः । पश्चात् श्रीजिनेश्वरसूरिभिः श्रीजिनचन्द्राऽभयदेवौ गुणपात्रमेताविति ज्ञात्वा सूरिपदे निवेशिती । अन्यौ च द्वौ सूरी-धनेश्वरो जिनभद्रनामा, द्वितीयश्च हरिभद्राचार्य : " अयं च सूरिः श्रीमद्भयदेवसूरिपार्श्वे पठितत्वेन तच्छिष्यतयापि व्यवाहारि । तथा च चित्रकूटीयप्रशस्तौ श्रीजिनवल्लभसूरिः “सत्तर्कन्याय चर्चार्चितचतुरगिरः श्रीप्रसन्नेन्दुसूरिः सूरिः श्रीवर्धमानो यतिपतिहरिभद्रो मुनीड् देवभद्रः । इत्याद्याः सर्वविद्यार्णवकलशभुवः संचरिष्णूरुकीर्ति स्तम्भायन्तेऽधुनापि श्रुतचरणरमाराजिनो यस्य शिष्याः ॥” श्रीनेमिचन्द्रीय महावीरचरित लिखित पुस्तकान्तभागस्थायामेकस्यां प्रशस्तौ तु नवाङ्गवृत्तिकृदभयदेवसूरिपट्टधरत्वेन वर्णितः सूरिरयम् । तथाहि आसीच्चन्द्रकुले शशाङ्कविमले सूरिर्गुणानां निधिस्त्रैलोक्येऽभयदेवसूरि सुगुरुस्सिद्धान्तविश्रामभूः । स्थानाङ्गादिनवाङ्गवृत्तिकरणप्राप्तप्रसिद्धिर्भृशं येन स्तम्भनके जिनस्य विशदा सम्यक्प्रतिष्ठा कृता ॥ तत्पट्टे हरिभद्रसूरिरुदभून्निश्शेषशास्त्रार्थवित्तच्छिष्योऽजितसिंहसूरिरुदभून्निःसङ्गिनामग्रणीः । तच्छिष्योऽजनि हेमसूरिगुरुर्गीतार्थचूडामणिस्तत्पादान्बुजपट्पदो विजयते श्रीमन्महेन्द्रः प्रभुः ॥ For Private & Personal Use Only परिचयः ॥ १ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy