SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ ग्रन्थकार ॥ २१ ॥ Jain Education "इचाइगुणसमेया भवविरह पाविऊण परमपयं । पत्ता अनंतजीवा तेसिमणुमोयणा मज्झ ॥” इति संबोधप्रकरणे च । इत्यादीनि निदर्शनानि विरहशब्दलाञ्छितग्रन्थानाम् । विरहाङ्ककरणकारणं च हंस - परमहंसाख्यस्वविद्वच्छिष्यद्वय वियोगसूचनमिति । यदुक्तं प्रभावकचरित्रे " अतिशय हृदयाभिरामशिष्यद्वयविरहोर्मिभरेण तप्तदेहः । निजकृतिमिह संव्यधात्समस्तां विरहपदेन युतां सतां स मुख्यः ॥ २०६ ॥ दशवैकालिकटीकाऽऽवश्यकवृत्ति - प्रज्ञापनाप्रदेशव्याख्याप्रभृतयष्टीकाः, समरादित्यकथा - षड्दर्शनसमुच्चय- लोकतत्त्वनिर्णयप्रमुखाः प्रकरणप्रन्थाश्च विरहरहितानां दृष्टान्ता इति । तदेवमेषामत्यद्भुतप्रतिभाप्राग्भारजुषां प्रभुहरिभद्रसूरीणां सैद्धान्तिकशिरोमणितया, दार्शनिकाप्रगामितया, कविकुलनेतृतया | संजातबहुमानश्रद्धा बहवोप्याचार्या, दर्शनशास्त्रप्रवीणाः, कवयश्च स्वस्वप्रबन्धेषु एनान् विषयीकृत्य स्तुतिमौखर्यमादधुः । तथाहि"सूर्यप्रकाश्यं क्व नु मण्डलं दिवः खद्योतकः क्वाऽस्य विभासनोद्यमी । १ - इत्यादिगुणसमेता भवविरहं प्राप्य परमपदम् । प्राप्ता अनन्तजीवास्तेषामनुमोदना मम ॥" For Private & Personal Use Only च परिचयः ॥ २१ ॥ www.jainelibrary.org
SR No.600101
Book TitleDharm Sangrahani Part_2
Original Sutra AuthorHaribhadrasuri
AuthorKalyanvijay Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages584
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy