________________
ब्रह्मचयें
धर्मसंग्रहणीवृत्तिः
मैथुननिर्दोषतानिरास:
॥३३९॥
अविगारनिसग्गम्मिवि वयभंगो जं न समयम्मि ॥ ९८४ ॥ न खलु प्रश्रवणादीनामिव निसर्गस्य रागादिप्रवृत्तिमन्तरेण प्रवर्तमानस्य शुक्रनिसर्गस्य निवृत्तिः क्रियते, किंतु रागादिप्रवृत्तिनिबन्धनस्य, ततस्तत्प्रतिषेधे प्रस्रवणादिदृष्टान्तोऽनुपपन्न एव, विषमत्वात् । अथ कथमेतदेवमवसीयतेप्रश्रवणादीनामिव शुक्रस्यापि निसर्गस्य निवृत्तिन क्रियत इत्यत आह-'अवियारेत्यादि' अविकारेण-रागादिप्रवृत्तिलक्षणविकारमन्तरेण शुक्रस्य निसर्गेऽपि सति खापादौ यत्-यस्मान्न समये-भागवते प्रवचने व्रतभङ्गः-चतुर्थव्रतभङ्गो देशित इति ॥९८४ ॥ यदपि 'देहपीडाओत्ति' एतदाशङ्कय 'इयरनिवित्तीऍ तई किन्नो' इत्युक्तं तत्रापि परिहारमाह
जतिवि य तीऍ निवित्ती कहमवि देहपीडाकरी होइ।
तहवि तई कायवा पडिवक्खे दोसभावातो ॥ ९८५ ॥ यद्यपि च तस्याः-स्त्रीप्रतिसेवाया निवृत्तिः कथमपि देहपीडाकरी भवति, कथमपीति ग्रहणं न भवत्येव तावत् प्रायः स्त्रीप्रतिसेवानिवृत्तौ संवेगादिवशतो यतेहपीडा, यदुक्तम्-"इह नो सुहासयाओ सुओवउत्तस्स मुणियत
१ इह नो शुभाशयात् श्रुतोपयुक्तस्य ज्ञाततत्त्वस्य । ब्रह्मणि भवति पीडा संवेगाच भिक्षोः ॥
॥३३९॥
For Private Personal Use Only
Jain Education
jainelibrary.org