________________
धर्मसंग्रहणीवृत्तिः
अहिंसा मूलगुणे वेदहिंसाया दुष्टता
॥३१५॥
बन्धनप्रशमानुविद्धपरमानन्दरूपविशिष्टोत्तरोत्तराध्यवसायविशेषानुभवभावात् कस्यचित्तदविनाभाविप्रतिभादिज्ञानातिशयदर्शनाच । तेन कारणेन दृष्टार्थेऽपि 'हु' निश्चितं न विरुध्यते हन्त जिनवचनमिति ॥८८९ ॥ पुनरपि पर आह
आरोगबोहिलाभं समाधिवरमुत्तमं च मे दिंतु।
जह एत्थं तदभावो इहेव तह चेव तेसिपि ॥ ८९० ॥ आ(अ)रोगस्य भाव आरोग्य-सिद्धत्वं तदर्थ बोधिलाभो-जिनप्रणीतधर्मप्राप्तिरारोग्यबोधिलाभस्तं, स चानिदानः सन्नारोग्याय घटत इति तदर्थ विशेषणमाह-'समाधिवरमुत्तमं चेति' समाधानं समाधिः, स च द्रव्यभावभेदात् द्विविधः, तत्र द्रव्यसमाधिर्यदुपयोगभावात्खास्थ्यं भवति येषां वा परस्परमविरोधः, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेवात्यन्तिकपरमखास्थ्ययोगात्, यतश्चायमित्थं द्विधा ततो द्रव्यसमाधिव्यवच्छेदार्थमिह वरग्रहणं, वरं-प्रधानं भावसमाधिमितियावत् , असावपि तारतम्यभेदेनानेकधेति विशेषयति-'उत्तम' सर्वोत्कृष्टं 'में मह्यं ददतु' प्रयच्छन्तु सर्वेऽपि ऋषभादयस्तीर्थकरा इत्यस्मिन् वाक्ये यदा तदभावः-आरोग्यादिदानाभावस्तथा चैव इहैव-वेदेऽपि शब्दार्थे तेषामपि-मत्राणामुपवणितसामर्थ्याभावो भविष्यतीत्यदोषस्तदयुक्तम् ॥८९०॥ यतः
॥३१५॥
Jan Education in
For Private Personal Use Only