________________
धर्मसंग्रहणीवृत्तिः
॥३१४॥
यथोक्तविधिविहिता हिंसा न दोषायेति शास्त्रार्थेऽपि सति एवं न भवति-यथोक्तहिंसा न दोषायेति न भवती- अहिंसा त्यत्र पुरुषमात्रस्य मानं-प्रमाणमिदम्-यत्-यस्मात् खलु दृष्टविरोधो-नले विवाहादौ व्यावणितमन्त्रफलस्य मूलगुणे विसंवादो विरोधो दृष्टविरोधोऽस्ति तेन कारणेनादृष्टेऽपि हिंसादोषाभावलक्षणे विसंवादरूपो विरोधो गम्यते इति ।
वेदहिंसाउक्तं च-"दृष्टबाधैव यत्रास्ति, ततोऽदृष्टे प्रवर्तनम् । असच्छ्रद्धाभिभूतानां, भूतानां ह्यान्ध्यसूचकम् ॥१॥” इति|
या दुष्टता |॥ ८८६ ॥ अत्र परस्यावकाशमाह
अह अत्थवादवकं एतं एकोवि जह नमोक्कारो।
सत्थत्थो होइ विही जह मोक्खो नाणकिरियाहि ॥ ८८७ ॥ अथैतत् विवाहादिविषयमन्त्रसामर्थ्यप्रतिपादनपरं वाक्यमर्थवादवाक्यम् , यथा-एकोवि णमोकारो जिणवर-181 वसहस्स वद्धमाणस । संसारसागराओ तारेइ नरं व नारिं वे ॥१॥ त्येतत्" ॥ अन्यथा तत एवं मुक्तिपदसिद्धेः सम्यगणुव्रतमहाव्रतादिरूपचारित्रपरिपालनावैयर्थ्यप्रसङ्गात् । शास्त्रार्थः पुनर्विधिर्भवति यथा-'मोक्षो ज्ञानक्रियाभ्यामिति,' ततो न यथोक्तदोषावकाशः ॥८८७ ॥ तदेतदयुक्तम् , यतः
१ एकोऽपि नमस्कारो जिनवरवृषभख वर्धमानस्य । संसारसागरात्तारयति नरै वा नारी वा ।
॥३१
४॥
Jain Education
For Private Personel Use Only
S
w.jainelibrary.org