SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ पाक्षिकसू० ॥ ४२ ॥ Jain Education तत्र मनुष्यादिकस्य सजातीयादन्यस्मात्मनुष्यादेरेव सकाशाद्यद्भयं तदिहलोकभयम् इहाधिकृत भीतिमतो जाती लोक इह| लोकस्ततो भयमिति व्युत्पत्तेः । १ । तथा विजातीयात्तिर्यग्देवादेः सकाशान्मनुष्यादीनां यद्भयं तत्परलोकभयं । २ । तथा | आदीयत इत्यादानं धनं तदर्थं चौरादिभ्यो यद्भयं तदादानभयं । ३ । तथा अकस्मादेव बाह्यनिमित्तानपेक्षं गृहादिष्वेव * स्थितस्य रात्र्यादौ भयमकस्माद्भयं । ४ । तथा वेदना पीडा तद्भयं वेदनाभयं । ५ । तथा मरणाद्भयं प्रतीतमेव । ६ । तथा अश्लोकभयमकीर्त्तिभयमिति ॥ ७ ॥ तथा सप्तविधमेव सप्तप्रकारमेव नाणविभंगन्ति पूर्वापरनिपातनाद्विभङ्गज्ञानं, तत्र विरुद्धो वितथो वा, अयथावस्तु विकल्पो यस्मिंस्तद्विभङ्गं तच्च तज्ज्ञानं च साकारत्वादिति विभङ्गज्ञानं मिथ्यात्वसहितावधिरित्यर्थः । तच्चैवं सप्तविधं - एकदिशि लोकाभिगमः, एकस्यां दिशि एकया दिशा पूर्वादिकयेत्यर्थः लोकाभिगमो लोकाववोध इत्येकं विभङ्गज्ञानं, विभङ्गता चास्य शेषदिक्षु लोकस्यानभिगमेन तत्प्रतिषेधनादिति । १ । तथा पञ्चसु दिक्षु लोकाभिगमो नैकस्यां कस्यां चिदिति, इहापि विभङ्गता एकदिशि लोक निषेधादिति । २ । तथा क्रियावरणो जीवः, क्रियामात्रस्यैव प्राणातिपातादेजीवः क्रियमाणस्य दर्शनात्तद्धेतुकर्म्मणश्चादर्शनात्क्रियैवावरणं कर्म यस्य स क्रियावरणः, कौऽसौ ? जीव इत्यवष्टम्भपरं यद्विभङ्गं तत्तृतीयम् । विभङ्गता चास्य कर्मणोऽदर्शनेनानभ्युपगमादेवमुत्तरत्रापि विभङ्गता समवसेयेति । ३ । मुदग्रे (ग्गे) जीवे, शरी| रावगाहक्षेत्र बाह्याभ्यन्तरपुद्गलरचितशरीरो जीव इत्यवष्टम्भवत्, भवनपत्यादिदेवानां वाह्याभ्यन्तरपुद्गलपर्यादानतो वैक्रियकरणदर्शनादिति चतुर्थम् ॥ ४ ॥ अमुदग्रे (ग्गे) जीवे, देवानां बाह्याभ्यन्तरपुद्गलादानविरहेण वैक्रियवतां दर्शनादवाह्याभ्यन्तरपुद्गलरचितावयवशरीरो जीव इत्य (ध्य ) वसायवत्पञ्चमम् । ५ । रुविं जीवे, देवानां वैक्रियशरीरवतां दर्शनाद्रूप्येव जीव For Private & Personal Use Only वृत्तिः ॥ ४२ ॥ jainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy