________________
वृत्तिः
पाक्षिकसू० योगः किंविशिष्टः सन्नित्याह-मणसच्चविउत्ति मनसः सत्यं मनःसत्यं, मनःसंयम इत्यर्थः । स चाकुशलमनोनिरोध
कुशलमनःप्रवर्तनलक्षणस्तं वेद्मि सम्यगासेवातो जानामीति मनःसत्यविद्वान् , तथा वाक्सत्येन कुशलाकुशलवचनोदीरणनिरोधलक्षणेन वाक्संयमेन करणभूतेन, तथा करणसत्येन क्रियातथ्येन कायसंयमेनेत्यर्थः स च सति कार्ये उपयोगतो गमनागमनादिविधानं तदभावे तु संलीनकरचरणाद्यवयवस्यास्थानं यदिति । अनेन च भङ्गत्रयाभिधानेनान्यदपि द्विकसंयोगभङ्गत्रयं सूचितं तद्यथा-मनोवाक्सत्येन मनःकायसत्येन वाकायसत्येन चेति । तथा तिविहेण वि सञ्चविउत्ति त्रिविधेनापि मनोवाकायलक्षणेन करणेन सत्यविद्वान् संयमज्ञः शुद्धसंयमपालक इत्यर्थः, अनेन च त्रिकसंयोगभङ्गः प्रदर्शित इत्येवं सप्तविकल्पेन संयमेन, रक्षामि परिपालयामि, महाव्रतानि पञ्चेति । तथा ॥ चत्तारि य दुहसेज्जा चउरो सन्ना तहा कसाया य। परिवज्जन्तो गुत्तो रक्खामि महत्वए पञ्च ॥८॥
चतस्रश्चतुःसङ्ख्याश्चशब्दोऽभ्युच्चये, शेरते आस्विति शय्याः, दुःखदाः शय्या दुःखशय्याः ताश्च द्रव्यतोऽतथाविधस्ववरूपाः, भावतस्तु दुःस्थचित्ततया दुःश्रमणतास्वभावाः, प्रवचनाश्रद्धान १ परलाभप्रार्थन २ कामाशंसन ३ स्नानादि
प्रार्थनविशेषिता मन्तव्याः। यदुक्तं स्थानाङ्गसूत्रे "चत्तारि दुहसेज्जाओ पन्नत्ताओ तत्थ खलु इमा पढमा दुहसेज्जा 'सेद्रणं मुण्डे भवित्ता अगाराओ अणगारियं पवइए निग्गंथे पावयणे संकिए कंखिए वित्तिगिच्छिए भेयसमावन्ने कलुसस
मावन्ने निग्गंथं पावयणं नो सद्दहइ नो पत्तियइ नो रोएइ निग्गंथं पावयणं असद्दहमाणे अपत्तियमाणे अरोएमाणे मणं |उच्चावयं नियच्छइ विणिग्यायमावजइ पढमा दुहसेज्जा' से इति स कश्चिद्गुरुकर्मा, प्रवचने शासने, दीर्घत्वं च प्राकृ|
CROCOCCCCCAMECAUSACRACK
॥ ३५॥
Jain Education
For Private & Personel Use Only
DHjainelibrary.org