SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ वृत्तिः पाक्षिकसू० द्रव्यप्रधानतामाश्रित्य, क्षेत्रतःक्षेत्रमङ्गीकृत्य, कालतः कालं प्रतीत्य, भावतः भावमुररीकृत्य । एतानेव व्याचष्टे-द्रव्यत इति व्याख्येयपदपरामर्शः, णमिति वाक्यालङ्कारे, प्राणातिपातः षट्सु षट्संख्येषु जीवनिकायेषु सूक्ष्मादिभेदभिन्नेषु प्राणिगणेषु संभवतीतिशेषः। क्षेत्रतो णमित्यलङ्कारे प्राणातिपातः सर्वलोके तिर्यग्लोकादिभेदभिन्ने भुवने भवतीति । कालता णमिति प्राग्वत् प्राणातिपातो दिवा वासरे, वा समुच्चये, रात्रौ रजन्यां, वा समुच्चय एव स्यादिति । भावतो णमिति प्राग्वदेव प्राणातिपातो रागेण मांसादिभक्षणाद्यभिप्रायलक्षणेन, द्वेषेण शत्रुहननादिपरिणामस्वरूपेण, वाशब्दो समुच्चये, स्यादिति द्रव्यभावपदसमुत्था चतुर्भङ्गिका चात्र तद्यथा-द्रव्यतो हिंसा भावतश्च १ तथा द्रव्यतो न भावतः २ तथा 8 साभावतो न द्रव्यतः ३ तथा न द्रव्यतो न भावत इति ४। तत्राय भङ्गकभावार्थ:-द्रव्यतो भावतश्चेति जहा केइ पुरिसे मियवहाए परिणते मियं पासित्ता आयन्नायड्डियकोदण्डजीवे सरं निसिरेज्जा, से य मिगे तेण सरेण विद्धे मए सिया, एसा दबओ हिंसा भावओ वि' या पुनद्रव्यतो न भावतः सा खल्वीर्यादिसमितस्य साधोः कारणे गच्छत इति । उक्तंच MI"उच्चालियम्मि पाए इरियासमियस्स सङ्कमहाए । वावजेज कुलिङ्गी मरेज तं जोगमासज्ज ।।" न उ तस्स तन्निमित्तो |बंधो सुहुमो वि देसिओ समए । अणवज्जो उवओगेण सवभावेण सो जम्हा" २ इत्यादि । या पुनर्भावतो न द्रव्यतः सेयं “जहा केइ पुरिसे मंदमंदप्पगासे पएसे संठियं ईसिं वलियकायं रजु पासित्ता एस अहित्ति तत्थ (तबह) हणणपरिणामपरिणए निकट्टियासिपत्ते दुयं दुयं छिंदिजा एसा भावओ हिंसा न दवओ" चरमभङ्गस्तु शून्य इति । एवं त प्राणातिपातं भेदतोऽभिधायाथ तस्यैवातीतकालविहितस्य सविशेषनिन्दाप्रतिपादकं सूत्रमाह AGRAASARKARSHA ।॥१३॥ in Education For Private & Personal Use Only Hainelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy