________________
Jain Education
तदुपयोगहेतुत्वादिति, अवधानं वा अवधिर्विषयपरिच्छेदनमिति अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानं, इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्करणमिति । तथा मनसि मनसो वा पर्यवः परिच्छेदः स एव ज्ञानं मनः पर्यवज्ञानं, अथवा मनसः पर्याया विशेषावस्थास्तेषु तेषां वा ज्ञानं मनःपर्यायज्ञानं समयक्षेत्रगत सञ्ज्ञमन्यमानमनोद्रव्य साक्षात्कारीति । तथा केवलमसहायं मत्यादिनिरपेक्षत्वात्, अकलङ्कं वा आवरणमलाभावात्, सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः संपूर्णोत्पत्तेः, असाधारणं वा अनन्यसदृशत्वात्, अनन्तं वा ज्ञेयानन्तत्वात्, तच्च तत् ज्ञानं चेति केवलज्ञानमिति । चशब्द उक्तसमुवये अनुक्तदर्शनचारित्रसमुच्चये वा द्रष्टव्यः । वन्दे प्रणौमि स्तौमि चेति । अनेन च तीर्थकरादिवन्दनेन शास्त्रादौ भावमङ्गलं कृतं, तेन च तत्कर्त्रध्येस्तो (श्रो ) तॄणां निर्विघ्ना अभीष्टसिद्धिरुपजायते इति ॥ तथा
महाश्च
जे य इमं गुणरयणसायरं अ (म) विराहिऊण (हेउ) तिन्नसंसारा । मङ्गलं करिता अहमवि आराहणाभिमुहो मङ्गलान्तरसमुच्चयार्थः । इमं जिनशासनप्रसिद्धं, गुणरयणसायरंति गुणा महाव्रतादयस्त एव र ज्ञानि विशिष्टफलहेतुत्वात्सर्ववस्तुसारत्वाच्च गुणरत्नानि तान्येव बहुत्वात्सागर इव सागरः समुद्रो गुणरत्नसागरस्तं, किमि| स्याह ? अविराध्य अखण्डमनुपालय, तीर्णसंसारा लङ्घितभवोदधयो जाताः तान् परमात्मनो, मङ्गलं कृत्वा शुभमनोवाक्कायगोचरं समानीयेत्यर्थः, अहमपि न केवलमुक्तन्यायेनाराधकत्वात्ते तीर्णभवार्णवाः किं त्वहमपि संसारार्णवलङ्घनार्थमेव आराधनायाः संपूर्णमोक्षमार्गानुपालनायाः अभिमुखः संमुखः कृतोद्यम इत्यर्थः आराधनाभिमुखः सञ्जात इति ॥ २ ॥ तथा मम मंगलमरिहंता सिद्धा साहू सुयं च धम्मो य । खन्ती गुत्ती मुत्ती, अजवया मद्दवं चेव ॥ ३ ॥
For Private & Personal Use Only
www.jainelibrary.org