SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ दिग्धकर्माणोऽतीर्थबुद्धाः अतीर्थसिद्धा वाऽतस्तान्, चः समुच्चये। श्रूयते च सुविधिप्रभृतीनां तीर्थकृता सप्तस्वन्तरेषु धर्म वृत्तिः व्यवच्छेदः । यदाह "जिणंतरे साहुवोच्छेओत्ति” तत्रापि केचिजातिस्मरणादिना प्राप्तापवर्गमार्गाः केवलिनो भूत्वा है। सिध्यन्तीति । मरुदेवीप्रभृतयो वाऽतीर्थबुद्धा अतीर्थसिद्धा वा, तदानीं तीर्थस्यानुत्पन्नत्वादिति । तथा तित्थसिद्धे य त्ति तित्थबुद्धे यत्ति वा । तत्र तीर्थे उक्तलक्षणे सति सिद्धा निवृत्ता बुद्धा वा ज्ञातवन्तः परमार्थ जम्बूस्वाम्यादिवदिति तीर्थसिद्धास्तीर्थबुद्धा वाऽतस्तान्, चशब्दः समुच्चय एव । तथा सिद्धेत्ति सिध्यन्तिस्म कृतकृत्या अभवन् सेधन्ति । या स्माऽगच्छन्नपुनरावृत्त्या लोकाग्रमिति सिद्धाः, सितं वा बद्धं कर्म ध्मातं दग्धं यैस्ते निरुक्त(क्ति)वशासिद्धाः कर्मप्रपश्चनिर्मुक्तास्तान् । इह च तीर्थातीर्थसिद्धभेदद्वये सर्वसिद्धभेदानामन्तर्भावेऽप्यज्ञातज्ञापनाय शेषसिद्धभेदसङ्ग्रहार्थ सिद्धग्रहण । तेचामी शेषसिद्धभेदाः-तीर्थकराः सन्तो ये सिद्धा ऋषभादिवत्ते तीर्थकरसिद्धाः १ तथा अतीर्थकरसिद्धाः सामाग्यकेवलिनः सन्तो ये सिद्धा गौतमादिवत् २ तथा स्वयमात्मना बुद्धास्तत्त्वं ज्ञातवन्तः स्वयम्बुद्धास्ते सन्तो ये सिद्धास्ते स्वयम्बुद्धसिद्धाः ३ तथा प्रतीत्यैक किञ्चिद्वषभादिकं अनित्यतादिभावनाकारणं वस्तु बुध्धा बुद्धवन्तः परमार्थमिति प्रत्येकबुद्धास्ते सन्तो ये सिद्धास्ते प्रत्येकबुद्धसिद्धाः ४ स्वयम्बुद्धप्रत्येकबुद्धानां च बोध्युपधिश्रुतलिङ्गकृतो है विशेषः तथाहि-स्वयम्बुद्धानां बाह्यनिमित्तमन्तरेणैव बोधिः प्रत्येकबुद्धानां तु तदपेक्षया, श्रूयतेच “वसभे य इंदकेऊ |वलए अंबे य पुप्फिए बोही । करकण्डुदुम्मुहस्सा नमिस्स गन्धाररन्नो य ॥१॥” इति सूत्रे बाह्यवृषभादिप्रत्ययसा १ ग्रन्थाङ्क (१००). Jan Education For Private Personal use only R inelibrary.org
SR No.600099
Book TitlePakshika Sutram
Original Sutra AuthorN/A
AuthorYashodevsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1911
Total Pages170
LanguageSanskrit
ClassificationManuscript & agam_anykaalin
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy