________________
SALMANORAMSACCAS
पष्टम्भकरणरूपे,आलापे सकृजल्पे, संलापे मिथः कथायां,उच्चासणे समासणेचेति व्यक्तं,अन्तरभाषायामाराध्यस्य भाष्यमाणस्यान्तरालभाषणरूपायां, उपरिभाषायामाराध्यभाषणानन्तरमेव तदधिकभाषणरूपायां,इह समुच्चयार्थश्चशब्दोलुप्तो द्रष्टव्यः, यत्किञ्चित्समस्तं सामान्यतो वा, मज्झत्ति मम, विनयपरिहीणं शिक्षावियुतत्वमनौचित्यमित्यर्थः संजातमिति शेषः, सामस्त्यं सामान्यरूपतां वा विनयपरिहीणस्यैव दर्शयन्नाह-सूक्ष्म वा बादरं वा, वाशब्दौ द्वयोरपि मिथ्यादुष्कृतविषयतातुल्यतोद्भावनार्थों, तुब्भे जाणहत्ति यूयं जानीथ यत्किंचिदिति वर्त्तते, अहं न याणामित्ति अहं पुनर्न जानामि मूढत्वाद्यत्किञ्चिदिति | वर्त्ततेऽप्रीतिकविषये विनयपरिहीणविषये च, मिच्छामि दुक्कडन्ति मिथ्या मे दुष्कृतमिति स्वदुश्चरितानुतापसूचकं स्वदोषप्रतिपत्तिसूचकं वा प्रतिक्रमणमिति परिभाषितं वाक्यं प्रयच्छामीति वाक्यशेषः । अथवा तस्सत्ति विभक्तिपरिणामात्तदप्रीतिकं विनयपरिहीणं च मिथ्या मोक्षसाधनविपर्ययभूतं वर्तते मे मम, तथा दुष्कृतं पापमिति स्वदोषप्रतिपत्तिरूपमपराधक्षमणमिति ॥ अत्राचार्यो ब्रूते 'अहमवि खामेमि तुन्भेत्ति' प्रतीतार्थमेवेदमिति । अत्राह कश्चित्-नणु पुवमेव सामन्नओ विसेसओवि पक्खियावराहखामणं कयं, ता किं पुणो इयाणिं पक्खियं खामेह । उच्यते । काउस्सग्गठियाणं सुभेगग्गभावमुवगयाणं किंचवराहपयं सुमरियं होज्जा, तस्स खामणानिमित्तं पुरो खामणगं करेमोत्ति । अहवा । सबहेह पक्खपडिक्क-13 मणपरिसमत्ती, तओ पुबिल्लखामणगाणन्तरं जं किंचि अपत्तियं वितहकिरियावइयराइणा समुप्पन्नं तमिह खामिज्जइत्ति। अहवा विही चेव सो कम्मक्खयहेऊभयवया तइयवेजोसहपओगसरिसो दरिसिओ,ता कायवमित्थवि खामणगं,न कोइ पज्जणुजोगो कायबो, आणा चेवेह भागवई पमाणन्ति ॥ततो यथा राजानं पुष्य(प)माणवा अतिक्रान्ते मागट्यकार्ये बहुमन्यन्ते
__Jain po०१३
For Private Personel Use Only
A
jainelibrary.org