________________
Jain Education
गृह्णातीति पताकां हरतीत्युच्यते, एवमत्रापि पाक्षिकादिषु महाव्रतोच्चारणतः समुपजातचारित्र विशुद्धिप्रकर्षः साधुः प्रवचनोक्तायाश्चारित्राराधनापताकाया हरणं करोतीति, तथा निज्जूहणत्ति निज्जूहणा निष्काशना कर्म्मशत्रूणामात्मनगरानिर्वासनेत्यर्थः, तथाराधना अखन्डनिष्पादना केषामित्याह-गुणानां मुक्तिप्रसाधकजीवव्यापाराणां, तथा संवरयोग | इति नूतनकर्म्मागमनिरोधहेतुः संवरस्तद्रूपो योगो व्यापारः संवरयोगः, अथवा संवरेण पञ्चाश्रवनिरोधलक्षणेन योगः संबन्धः संवरयोग इति, तथा पसत्थझाणोवजुत्तयत्ति प्रशस्तध्यानेन धर्मशुक्ल लक्षणशुभाध्यवसानेनोपयुक्तता संपन्नता प्रशस्तध्याने वोपयुक्तता प्रशस्तध्यानोपयुक्तता, महात्रतोच्चारणं कुर्वतः शृण्वतो वा नियमादन्यतरशुभध्यानसंभवादिति, तथा जुत्तया य नाणेत्ति युक्तता च समन्वितता च विभक्तिव्यत्ययात् ज्ञानेन तत्त्वावगमेन सद्बोधसंपन्नतेत्यर्थः, | महाव्रतप्रतिपत्तेः सम्यग्ज्ञानफलत्वादितिभावः, चूर्णौ तु जुत्तया यत्ति पाठो व्याख्यातस्तत्र युक्तता चाष्टादशशीलाङ्गसहस्रैरिति द्रष्टव्यं, तथा परमट्ठोत्ति परमार्थः सद्भूतार्थः अकृत्रिमपदार्थ इत्यर्थ इति, कश्चित्पदार्थः परमार्थोऽपि परमाण्वादिवदुत्तमो न भवत्यत आह- उत्तमश्चासावर्थश्चोत्तमार्थः प्रकृष्टपदार्थः मोक्षफलप्रसाधकत्वेन महाव्रतानां सर्ववस्तुप्रधानत्वादितिभावः, तथा एसत्ति लिङ्गव्यत्ययादेतन्महाव्रतोच्चारणं प्रवचनस्य सारो देशित इति संबन्धः, अथवा एष इत्यनेन सार इत्येतस्य लिङ्गं गृहीतमिति कैरित्याह-तीर्थ करैः प्रवचनगुरुभिः किंविधैरित्याह-रतिश्चारित्रमोहनीयकम्र्मोदयजन्यस्तथाविधानन्दरूपश्चित्तविकारः, रागश्च ममकारो, द्वेषश्चाहंकारो, रतिरागद्वेषास्तान्मथ्नन्ति व्यप | नयन्तीति रतिरागद्वेषमथनाः तैः किमित्याह-देशितः केवलालोकेनोपलभ्य भव्येभ्यः प्रवेदितः प्रवचनस्य द्वादशाङ्गा
For Private & Personal Use Only
jainelibrary.org