________________
हस्स तं पासिऊण मिच्छादुक्कडन्ति भणमाणस्स वेरग्गमग्गगयस्स केवलनाणं समुप्पन्नं, सेहस्स वि कालेणं ति, एवमाइ दुप्पउत्तकायजोगो दण्डोत्ति" तथा तिगरणसुद्धोत्ति त्रीणि च तानि करणानि च मनः प्रभृतीनि त्रिकरणानि तैः शुद्धो निर्दोषस्त्रिकरणानि वा शुद्धानि सर्वदोषरहितानि यस्य स त्रिकरणशुद्धः आह-त्रिदण्डविरतस्त्रिकरणशुद्ध एव भवत्यतः किं तद्हणेन! सत्यं, सावद्ययोगनिवृत्तस्त्रिदण्डविरत उच्यते, निरवद्ययोगप्रवृत्तस्तु त्रिकरणशुद्धः, अथवा करणरूपसाव-13 द्ययोगविरतो दण्डत्रयविरत उच्यते, करणकारणानुमतिरूपसावद्ययोगविरतस्तु त्रिकरणशुद्ध इति न दोषः, अन्यथा वाऽनयोबहुश्रुतैर्विशेषो भावनीयः यतो गम्भीरमिदमार्षमिति । तथा तिसल्लनीसल्लोत्ति शल्यते बाध्यते प्राणी एभिरिति । शल्यानि द्रव्यतस्तोमरादीनि भावतस्तु मायादीनि, निर्गतानि शल्यानि यस्य स निःशल्यः, स चैकशल्यापेक्षयापि स्यादित्याह-त्रीणि च तानि शल्यानि च त्रिशल्यानि तेषु विषये निःशल्यस्त्रिशल्यनिःशल्यः सन् , तत्र मायाशल्यं माया निकृतिः सैव शल्यं मायाशल्यं, नितरां दायते लूयते मोक्षफलमनिन्द्यब्रह्मचर्यादिसाध्यकुशलकर्माकल्पतरुवनमनेन देवादि-2 प्रार्थनपरिणामनिशितासिनेति निदानं तदेव शल्यं निदानशल्यं, मिथ्यादर्शनशल्यं मिथ्या विपरीतं दर्शनं तत्त्वावबोधलक्षणं मिथ्यादर्शनं तदेव शल्यं मिथ्यादर्शनशल्यमिति । तिविहेण पडिकन्तोत्ति त्रिविधेन त्रिप्रकारेण करणेनेति
गम्यते, प्रतिक्रान्तः सर्वातिचारप्रतिनिवृत्तो, रक्षामि महाव्रतानि पञ्चेति । अथ महाव्रतोच्चारणं निगमयन्नाह3 इच्चेयं महत्वयउच्चारणं, थिरत्तं सल्लुद्धरणं धिइबलयं ववसाओ साहणटो पावनिवारणं निका
यणा भावविसोही पडागाहरणं निज्जुहणाराहणा गुणाणं संवरजोगो पसत्थज्झाणोवउत्तया जुत्तया
Jain Education in
For Private & Personel Use Only
DRjainelibrary.org