________________
-SACHA
धर्म
परीक्षा.
ROSCOACANCY
पूर्वापरेण कार्याणि, विदधात्यपरीक्ष्य यः। पश्चात्तापमसौ तीव्र, चूतघातीव गच्छति ॥ ३९८ ॥ असूचि चूतघातीत्थं, बहिर्भूतविचारणः । साम्प्रतं कथ्यते क्षीरः, श्रूयतामवधानतः ॥ ३९९ ॥ वोहारविषये ख्यातः, सागराचारवेदकः । वणिक्सागरदत्तोऽभूजलयात्रापरायणः ॥ ४०॥ उत्तीर्य सागरं नक्र-मकरग्राहसंकुलम् । एकदा पोतमारुह्य, चोचद्वीपमसौ गतः॥४०१॥ वाणी जिनेश्वरस्येव, सुखदानपटीयसी । गच्छता सुरभिनीता, तेनैका क्षीरदायिनी ॥४०२॥ अन्येद्युः पायसीं नीत्वा, शुभखादां सुधामिव । तोमरो वीक्षितस्तेन, कायाकान्तिवितारिणीम् ॥ ४०३॥ संस्कृत्य सुन्दरं दना, शाल्योदनमनुत्तमम् । दत्वा तेनेक्षितोऽन्येधुः, पीयूषमिव दुर्लभम् ॥ ४०४॥ अलब्धपूर्वकं भुक्त्वा, मिष्टमाहारमुज्वलम् । प्रहृष्टचेतसाऽवाचि, तोमरेण स वाणिजः॥४०५॥ वणिक्पते ! त्वया दिव्यं, केशं लभ्यतेऽशनम् ? । तेनाऽवाचि ममेदृक्षं, कुलदेव्या प्रदीयते ॥४०६॥ भणितो म्लेच्छनाथेन, तेनासौ वणिजस्ततः । खकीया दीयतां भद्र ! ममेयं कुलदेवता ॥ ४०७॥ वणिजोक्तं तवात्मीयां, ददामि कुलदेवताम् । ददासि काङ्कितं द्रव्यं, यदि द्वीपपते ! मम ॥ ४०८॥ द्वीपेशेन ततोऽवाचि, मा कार्भिद्र! संशयम् । गृहाण वाञ्छितं वित्तं, देहि मे कुलदेवताम् ॥ ४०९॥ मनीषितं ततो द्रव्यं, गृहीत्वा वणिजो गतः। समर्प्य सुरभिं तस्य, पोतेनोत्तीर्य सागरम् ॥ ४१०॥
॥१६॥
Jain Education in
For Private & Personel Use Only
Callu.jainelibrary.org