SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ कुरङ्गीवदनाम्भोज, स्नेहादित्यप्रबोधितम् । तस्यावलोकमानस्य, स्कन्धावारोऽभवत्रभोः॥२०३॥ स देशवामिनाऽऽहूय, भणितो बहुधान्यकः । स्कन्धावारं व्रज क्षिप्रं, सामग्री त्वं कुरूचिताम् ॥ २०४॥ स नत्वैवं करोमीति, निगद्य गृहमागतः। आलिङ्गय वल्लभां गाढमुवाच रहसिस्थिताम् ॥ २०५॥ कुरङ्गि ! तिष्ठ गेहे त्वं, स्कन्धावारं व्रजाम्यहम् । खखामिनां हि नादेशो, लङ्घनीयः सुखार्थिभिः ॥ २०६ ॥ कटकं मम सम्पन्नं, खामिनस्तत्र सुन्दरि! । अवश्यमेव गन्तव्यं, परथा कुप्यति प्रभुः ॥ २०७॥ आकयेति वचस्तन्वी, सा बभाषे विषण्णधीः । मयापि नाथ ! गन्तव्यं, त्वया सह विनिश्चितम् ॥ २०८॥ शक्यते सुखतः सोढुं, तोषमाणो विभावसुः। वियोगो न पुनर्नाथ ! तापिताखिलविग्रहः ॥२०९॥ वरं मृता तवाध्यक्ष, प्रविश्य ज्वलने विभो!। न परोक्षे तव क्षिप्रं, मारिता विरहारिणा ॥२१॥ यदि गच्छसि गच्छ त्वं, पन्थानः सन्तु ते शिवाः। ममापि जीवितव्यस्य, गच्छतो यममन्दिरम् ॥ २११॥ ग्रामकूटस्ततोऽवादीन्मैवं वादीमृगेक्षणे!। स्थिरीभूय गृहे तिष्ठ, मा काढुर्गमने मनः ॥ २१२॥ परस्त्रीलोलुपो राजा, त्वां गृह्णातीक्षितां यतः। स्थापयित्वा ततः कान्ते !, त्वां गच्छामि निकेतने ॥ २१३॥ संबोध्येति प्रियां मुक्त्वा, स्कन्धावारमसौ गतः। ग्रामकूटपतिर्गेहं, समर्प्य धनपूरितम् ॥ २१४ ॥ चिक्रीड सा विटैः साध, सदेहरिव दुर्नयः गते भर्तरि निःशङ्का, मन्मथादेशकारिणी ॥२१५॥ Jain Education For Private & Personel Use Only T w.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy