________________
अग्निहोत्रादिकर्माणि, कुर्वन्तो यत्र भूरिशः । वसन्ति ब्राह्मणा दक्षा, वेदा इव सविग्रहाः ॥ ९९॥ अष्टादश पुराणानि, व्याख्यायन्ते सहस्रशः। यत्र ख्यापयितुं धर्म, दुःखदारुहुताशनं ॥ १०॥ तर्क व्याकरणं काव्यं, नीतिशास्त्रं पदे पदे । व्याचक्षाणैर्यदाऽऽलीढं, वागदेव्या इव मन्दिरम् ॥१०१॥ वेला मे महती जाता, पश्यतस्तत् समन्ततः । व्याक्षिप्तचेतसा भद्र!, गतः कालो न बुध्यते ॥ १०२॥ यदाश्चर्य मया दृष्टं, तत्राश्चर्यनिकेतने । विवक्षामि; न शक्नोमि, तद्वक्तुं वचनैः परम् ॥ १०३ ॥ यत्त्वां धर्ममिव त्यक्त्वा, तत्र भद्र ! चिरं स्थितः । क्षमितव्यं ममाशेषादुर्विनीतस्य तत्त्वया ॥ १०४॥ उक्तं पवनवेगेन, हसित्वा शुद्धचेतसा । दर्शयख ममापीदं, यदृष्टं कौतुकं त्वया ॥१०५॥ मित्र ! गच्छ पुनस्तत्र, ममात्यन्तं कुतूहलम् । प्रार्थनां कुर्वते मोघां, सुहृदः सुहृदां न हि ॥ १०६॥ मनोवेगस्ततोऽवोचद्गमिष्यामि स्थिरीभव । उत्तालभवनान्मित्र!, पच्यते नधुदुम्बरः ॥ १०७ ॥ विधाय भोजनं प्रातर्गमिष्यामो निराकुलाः । बुभुक्षाग्लानचित्तानां, कौतुकं नीरसं भवेत् ॥ १०८ ॥ इत्यालोच्य ततः प्रीती, जग्मतुस्ती खमन्दिरम् । सुन्दरस्फुरितश्रीको, नयोत्साहाविवोर्जितौ ॥ १०९॥ प्रातर्विमानमारुह्य, कामगं प्रस्थिताविमौ । सुराविव वराकारी, दिव्याभरणराजितौ ॥ ११०॥ वेगेन तो ततः प्राप्तौ, पाटलीपुत्रपत्तनम् । विचित्राश्चर्यसङ्कीर्ण, मनसेव मनीषितम् ॥ १११॥
sin Education in
For Private & Personel Use Only
&
w.jainelibrary.org