SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ रुष्टेन गजराजेन, वृक्षः कूपतटस्थितः। कम्पितो रभसाऽभ्येत्याऽसंयतेनेव संयमः ॥४७॥ चलिताः सर्वतस्तस्मिश्चलिते मधुमक्षिकाः । विविधा मधुजालस्था, वेदना इव दुस्सहाः॥४८॥ मक्षिकाभिरसौ ताभिर्मर्मभिद्भिः समन्ततः । ऊर्ध्वं विलोकयामास, दस्यमानो महाव्यथः ॥ ४९॥ ऊवीकृतमुखस्यास्य, वीक्ष्यमाणस्य पादपम् । दीनस्यौष्ठतले सूक्ष्मः, पतितो मधुनः कणः ॥५०॥ श्वभ्रवाधाधिका बाधामवमत्य स दुर्मनाः। खादमानो महासौख्यं, मन्यते मधुविद्युषः ॥५१॥ एवंविधस्य पान्थस्य, यादृशे स्तः सुखासुखे । जीवस्य तादृशे ज्ञेये, संसारे व्यसनाऽऽकरे ॥ ५२ ।। भिल्लवम॑ मतं पापं, शरीरी पथिको मतः। हस्ती मृत्युस्तरुस्तम्बो, जीवितं कूपको भवः ॥५३॥ नरकोऽजगरः पक्षौ, मूषकावसितेतरौ । कषायाः पन्नगाः प्रोक्ता, व्याधयो मधुमक्षिकाः॥५४॥ मधुसूक्ष्मकणाखादो, भोगसौख्यमुदाहृतम् । विभागमिति जानीहि, संसारे सुखदुःखयोः ॥ ५५ ॥ भवे बम्भ्रम्यमाणानामन्तरं सुखदुःखयोः। जायते तत्त्वतो नूनं, मेरुसर्षपयोरिव ॥५६॥ दुःखं मेरूपमं सौख्यं, संसारे सर्पपोपमम् । यतस्ततः सदा कार्यः, संसारत्यजनोद्यमः ॥ ५७ ॥ येऽणुमात्रसुखस्यार्थे, कुर्वते भोगसेवनम् । ते शङ्के शीतनाशाय, भजन्ति कुलिशानलम् ॥ ५८॥ दुःखदं सुखदं वस्तु, मन्यन्ते विषयाकुलाः। धत्तूरभक्षकाः किं न, सर्व पश्यन्ति काञ्चनम् ॥ ५९॥ Jain Education in For Private Personel Use Only M ainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy