SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Jain Education Int मद्यमांसाङ्गनासक्ता, यदि स्युर्द्धार्मिकास्तदा । सौण्डा वाहि (खाकि) कविटा (द्या) स्तदा यान्ति सुरालयम् ॥ १३२० ॥ कोलोभपराभूताः, पुत्रदारधनादराः । पातयन्ति भवाम्भोधौ, यतयः संयमोज्झिताः ॥ १३२१ ॥ मदमत्सरविद्वेषरागग्रस्तेऽत्र विष्टपे । दुर्लभः शिवमार्गो यत्तत्त्वं भव परीक्षकः ॥ १३२२ ॥ भवस्यान्तकरो देवो, गुरुः कामादिवर्जितः । धर्म्मा दयामयो नित्यमिति तत्त्वानि सन्तु मे ॥ १३२३ ॥ श्रुत्वा पवनवेगोऽथ, परदर्शनदुष्टताम् । पप्रच्छेति मनोवेगं, सन्देहतिमिरच्छिदे ॥ १३२४ ॥ परस्परविरुद्धानि, कथं जानासि भूरिशः । दशेनान्यन्यदीयानि ?, कथ्यतां मम सन्मते ! ॥ १३२५ ॥ आकर्ण्य भारतीं तस्य, मनोवेगोऽगदीदिति । उत्पत्तिरन्यतीर्थानां श्रूयतां मित्र ? वच्मि ते ॥ १३२६ ॥ उत्सर्पिण्यवसर्पिण्यौ, वर्त्तते भारते सदा । दुर्निवारौ महावेगौ, त्रियामावासराविव ॥ १३२७ ॥ तत्र तत्रारकाः षट् स्युः, सुषमासुषमादयः । परस्परमहाभेदा, वर्षे वा शिशिरादयः ॥ १३२८ ॥ कोटीको दशाधीनां, प्रत्येकमनयोः प्रमा । तत्रावसर्पिणी ज्ञेया, वर्त्तमाना विचक्षणैः ॥ १३२९ ॥ कोटी कोट्योऽम्बुराशीनां, सुषमासुषमा दिना (मोदिता) । चतस्रो गदितास्तिस्रो, द्वितीया सुषमा समा॥ १३३० ॥ तेषामेव तृतीया द्वे, सुषमादुष्पमोदिते । तासु त्रिद्येकपल्यानि, जीवितं क्रमतोऽङ्गिनाम् ॥ १३३१ ॥ त्रिद्येकका मताः कोशाः, क्रमतोऽत्र तनूच्छ्रितिः । त्रियेकदिवसैस्तेषामाहारो भोगभागिनाम् ॥ १३३२ ॥ For Private & Personal Use Only w.jainelibrary.org
SR No.600098
Book TitleDharm Pariksha Katha
Original Sutra AuthorN/A
AuthorPadmasagar Gani
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages126
LanguageSanskrit
ClassificationManuscript
File Size6 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy